________________
तृतीयोऽध्यायः ।
६५
रगणानन्तरं नगणसगणौ चेदिह छन्दःशास्त्रे हलमुखी नाम । त्रिभिः षभिश्च यतिरिति सम्प्रदायः ॥ १६ ॥
भुजगशिशुभृता नौ मः ॥ २० ॥ (१)
द्वाभ्यां नगणाभ्यामेक्रेन च मगणेन भुजगशिशुभृतां । सप्तभिर्द्वा - भ्यां च यतिः ।
तथा
भद्रिकेति रनरैरियम् ॥
t
वृत्तसङ्ख्या ५१२ ॥ २० ॥ श्रथ पक्तिः (१०) -
सौ जगौ शुद्धविराडिदं मतम् ॥ २१ ॥ (२) मगण - सगणौ जगणगुरू च तच्छुद्धविरारमतं छन्दोविदाम् । पादान्तेऽत्र यतिः ॥ २१ ॥
नौ जगौ चेति पणवनामकम् ॥ २२ ॥ (३)
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ -
न.
न.
म.
इयम—धिकत—रं रम्या । विकचकुवलयश्यामा ॥ 111, ।।।, ऽ ऽऽ.
रमयति हृदयं यूनां । भुजगशिशुभृता नारी ॥ ( बृहतीभेदेषु ६४ तमोऽयं भेदः । )
(२) उदाहरणान्तरं यथा छन्दोवृत्तौ -
म.
स. ज. गु.
विश्वं तिष्ठति कु- चिकोट - रे । वक्त्रे यस्य सरस्वती सदा ॥ ऽ ऽ ऽ, ।। ऽ, । ऽ 1, S.
श्रस्मद्वंश पितामहो गुरु- । ब्रह्मा शुद्धविराट् पुनातु नः ॥ ( पङक्तिभेदेषु ३४५ तमो भेदोऽयम् । )
(३) उदाहरणान्तरं यथा मम
म.
न.
ज. गु.
भक्ता ये - शरण - मुपागता । स्तेषां नो चिकुरमपि प्रभुः ॥ ऽ ऽ ऽ, ।।।, 15 1,, 5.
छेत्तं कोऽपि जगति हे शिवे ।। तेऽयं कीर्तिपण्वनिःस्वनः ॥
င်