SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। प्रतिपादमेकैकलक्षणयोग वदन्तः समुदितेषु विविधलक्षणयोगाभिप्रायेणेदं व्याचक्षते । वयं तूभयथा व्याख्याने दोषाभावं वदामः । अत एव मात्रासमकादिप्रकृत्या “एभिः पादाकुलकम्" (पिं.सू.४-४७) इति सूत्रकारः सामान्यत एवाह । तथा मात्रासमकविश्लोकवानवासिकोपचित्राणामसङ्कीर्णपादवदुदाहरणमाह यथा अलिवाचालितविकसितचूते काले मदनसमागमदूते ।। स्मृत्वा कान्ता परिहृतसार्थः पादाकुलकं धावति पान्थः ॥ इति । सङ्कीर्णोदाहरणं तु मूल एव । तेनोभयथाऽपि न दोषः । अत्र पञ्चानां मात्रासमकादीनां परस्परसङ्कर अनन्ता एव भेदाः । तत्र यथा द्वयोर्डयोः सङ्करे चत्वारिंशदधिकं शतं भेदा भवन्ति । तद्यथा ३ س ، اس عو ر ५६ । १४+२+४२+५६=१४० अत्रैककोष्ठस्याङ्कद्वयसङ्ख्याकवृत्तद्वयस्य सङ्करे वक्ष्यमाणोपजातिप्रस्तारमार्गेण चतुर्दश प्रतिकोष्ठं भेदा भवन्ति । एवं प्रथमद्वितीययोः प्रथमतृतीययोः प्रथमचतुर्थयोः प्रथमपञ्चमयोः सङ्कर चत्वारश्चतुर्दशका मिलिताः षट्पञ्चाशद् (५६) भवन्ति । द्वितीयतृतीयद्वितीयचतुर्थद्वितीयपञ्चमानों सङ्करे द्विचत्वाररिंशत् (४२)। तथा तृतीयचतुर्थतृतीयपञ्चमानां सङ्कऽष्टाविंशतिः (२८) । तथा चतुर्थपञ्चमयोः सङ्करे चतुर्दश (१४) इति। सर्वेषां मेलने शतमेकं चत्वारिंशञ्च (१४०) । एवं त्रयाणां चतुर्णा सङ्करऽप्यूह्याः। एतेषामुदाहरणान ह्यानि । विस्तरभयात्तु नोच्यन्ते । अत्राचलधृत्यादीनों सर्वेषां षोडशमात्रपदत्वेन समत्वान्मात्रासमकसंज्ञा ॥३७॥ __ अथोक्तानां वक्ष्यमाणानां च वृत्तानां गुरुलघुमात्रावर्णेयत्तापरिक्षानोपायमाह
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy