________________
नारायणभट्टीसहितवृत्तरत्नाकरेवृत्तस्य ला विना वणर्गा वर्णा गुरुभिस्तथा ॥ गुरवो लैदेले नित्यं प्रमाणमिति निश्चितम् ॥ ३८ ॥ वृत्तस्य ला मात्रा वर्गविना गा गुरवो ज्ञेया इत्यध्याहारः । ला वर्णा गा इत्यादिभिर्वर्णैस्तत्सङ्ख्या लक्ष्यते । ततश्चायमर्थः--यदि वृत्तस्य मात्रावर्णयोः सङ्ख्या विशाता, गुरुलघुसङ्ख्या च न ज्ञाता तदा मात्रासङ्ख्यायां वर्णसङ्ख्यामपनीयाऽवशिष्टा गुरुसङ्ख्या ज्ञेयेति, वर्णसङ. ख्यामध्ये च ज्ञातां गुरुसङ्ख्यामपनीयावशिष्टा लघुसङ्ख्या शेयेत्याशयः । यदि तु मात्राणां गुरूणां च शातसङ्ख्यत्वं वर्णाश्चाऽशातसङ्ख्यास्तदा तज्ञानोपायमाह--वर्णा इति । तथा वृत्तस्य मात्रा गुरुभिर्विना वर्णा शेयाइत्यर्थः । वृत्तमात्रासङ्ख्यायां गुरुसङ्ख्यामपनीयाऽवशिष्टा वर्णसङ्ख्येत्यर्थः । वृत्तमात्रालघुसङ्ख्याशाने सति गुरुक्षाने प्रकारान्तरमाह-गुरव इति । वृत्तस्य ला इत्यनुषङ्गः । वृत्तस्य मात्राः लैलघुभिविना दलेर्धे कृते गुरवो शेयाः । वृत्तमात्रासङ्ख्यायां लघुसङ्ख्यामपनीयाऽवशिष्टां सङ्ख्याम/कृत्य तावत्प्रमाणा गुरुसङ्ख्येत्यर्थः । उक्तां गुर्वादिसङ्गख्यामुपसंहरति--नित्यमिति । इत्यमुना प्रकारेण प्रमाणं गुर्वादीनां नित्यं सर्वदा निश्चितं भवतीति शेषः । वृत्तस्येत्युपलक्षणम् । गद्यादावपि सम्भवात् । अत्र च गुरुवर्णसङ्ख्याया ज्ञानोपायप्रदर्शनमुपलक्षणार्थम् । तथा हि माशवर्णगुरुलघुचतुष्टयात्मके वृत्ते द्वयोर्द्वयोरियत्तापरिच्छेदेऽन्ययोः सङ्ख्यापरिच्छित्तः । तद्यथा-मात्रावर्णयोर्मात्रागुर्वोर्मात्रालध्वोर्वर्णलध्वोर्गुरुलध्वोश्च षट्सु द्विकेष्वेकैकद्विक शानेऽपरं द्विकमुक्तया दिशा शेयमिति । इदं सर्वमुदाहरणे योज्यते-"वागाविव सम्पृक्तौ” (रघु.१-१) इत्यत्र चतुर्दशमात्रास्वष्टरूपां वर्णसङ्ख्यामपनीयाऽवशिष्टाः षडू गुरुवः । वर्णसङ्ख्यापूरकौ च द्वौ। एवं षड्पां गुरुसङ्ख्यामपनीयाऽवशिष्टा वर्णा अष्टौ, गुरूणां षट्त्वादवशिष्टौ द्वौ लघ । एवं लघुद्वयमपनीयावशिष्टायां द्वादशसङ्ख्यायामधितायां षट्सङ्ख्या गुरवः, गुरुभिादशमात्रासिद्धेश्चतुर्दशमात्रासिद्ध्यर्थं द्वौ लघु इति । एवं वर्णगुरुशाने वर्णलघुज्ञाने गुरुलघुज्ञाने चेतरद्वयज्ञानं योज्यम् । एवं सर्वेषु , गद्यपद्येषु ॥ ३८॥
इति श्रीनारायणभविरचितायां वृत्तरत्नाकरटी
कायां मात्रासमवप्रकरणम् ।