________________
५२
नारायणभट्टीसहितवृत्तरत्नाकरे___ बाणाः पञ्च । पञ्चमाष्टमनवसु यदि लघुः स्यात् । शेषं पूर्ववत्। तदा चित्रा नाम । अस्यामाद्ये गणे चत्वारो विकल्पाः यथा-ss, is,si, ।।। द्वितीयेऽपि द्वौ-151, mil. तृतीये त्रयः ।।s, si, . चतुर्थे द्वौss, is.अन्योन्यघाते प्रतिपादं भेदसङ्ख्या अष्टाचत्वारिंशत्। श्रन्योन्यगुणने पूर्वैव सङ्ख्या ॥ ३५ ॥
उपचित्रा नवमे परयुक्ते ॥ ३६॥ (१) नवमे मात्रास्वरूपे परेण दशमेन युक्त मिलिते सत्युपचित्रा नगम । शेषं प्राग्वत् । जयदेवस्त्वेकादशादिमात्रास्वपि नियममाह--"टभ्यो गो ल्यावुपचित्रा” इति । अष्टकलानन्तरं गुरुलघुयगणा इत्यर्थः । अत्र तृतीये गणे द्वौ विकल्पौ-s,s||अन्ये गणविकल्पा मात्रासमकवत् । अन्योन्यधाते प्रतिपादं भेदा अष्टाचत्वारिंशत् । अन्योन्यघाते सङ्ख्या प्राग्वत् ॥ ३६॥
यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ॥ अनियतवृत्तपरिमाणयुक्तं प्रथितं जात्सु पादाकुलकम् ॥३७॥ अतीतानि पूर्वोक्तानि कृतानि विविधानि नानाप्रकाराणि यानि लदमाणि लक्षणानि तद्युक्तैर्मात्रासमादीनां पञ्चानां पादः कलितं रचितं तथाऽनियतवृत्तं पादचतुष्केऽपि नियतैकवृत्तलक्षणहीनं परिमाणेन च षोडशमात्रपादत्वेन युक्तम् । ततः कर्मधारयः । एतादृशं यद्वृत्तं तत्पादाकुलकमित्यन्वर्थसंशया शेयमिति तच्छब्दाध्याहारेण योज्यम्। अथ प्रथमपादे मात्रासमकविश्लोकचित्राणां लक्षणयोगः, विश्लोकोपचित्रयोद्वितीये, मात्रासमकवानवासिकयोस्तृतीये, उपचित्राविश्लोकयोश्चतुर्थे इति । इदं च प्रतिपादमनेकपूर्वोक्तलक्षणं मत्वोदाहरणं मन्तव्यम् । अन्ये तु
(१) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौ--
६-१०
8-१० यश्चित्तं गुरु- स- क्तमुदा-रं विद्याभ्यासम-हा- व्यसनं च ॥ sss।।, 5, ।। 5, 555 ।।, s, ।।ss.
पृथ्वी तस्य गु-हैं-रुपचि-त्रा-चन्द्रमरीचिनि-भैर्भवती-यम् ॥ 55 ।।, 5, 15, 5, 5।।5।।, s, ।।s, s.