________________
द्वितीयोऽध्यायः।
४
अथ मात्रासमान्याह
द्विगुणितवसुलघुरचलधृतिरिति ॥ ३१॥ (१) __वर्णच्छन्दोऽप्येतद् द्विगुणितवसुपदस्योत्तरत्राऽनुवृत्तिसिद्ध्यर्थं प्रकी
केष्वभ्यधायि । तेन मात्रासमकादिषु षोडशमात्रत्वमधिकृतं भवति । द्विगुणाः वसुलघवोऽष्टौ लघवो यस्यां साऽचलधृतिरिति कथ्यते । चकाराद्गीत्यायेंत्यपि संज्ञा भवति, इति पिङ्गलमतसङ्ग्रहः । षोडशलघुपादेत्यर्थः ॥ ३१॥
मात्रासमकं नवमो ल्गान्तम् ।। ३२ ॥ (२) यत्र पादे नवमो ल लघुरेव गुरुश्चाऽन्ते नियतस्तन्मात्रासमकसंज्ञम् । नवमाऽन्त्ययोर्लघुगुरुनियमाच्छेषे नियमाऽभावः सूचितः । सर्वथा षोडशमात्रता कार्येति भावः। सर्वेषु मात्रासमेषु सममात्रा परेण युक्ता न कायेंत्यपि सम्प्रदायः । ततश्च प्रथमे जगणाभावाञ्चत्वारो गणविकल्पाः।
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ" ... १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६
म-द-क-ल-ख-ग-कु-ल-क-ल-र-व-मु-ख-रि-णि
१ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ वि-क-सि-त-स-र-सि-ज-प-रि-म-ल-सु-र-भि-णि ॥
१ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ . गि-रि-व-र-प-रि-स-र-स-र-सि-म-ह-ति-ख-लु
१ २ ३ ४ ५ ६ ७ ८ ९ १०१ १२ १३ १४ १५ १६ र-ति-र-ति-श-य-मि-ह म म हृदि वि-ल-स-ति ॥ .
(२) उदाहरणान्तरं यथा छन्दोवृत्तौ
ल. गु.
अश्मश्रमखो sss,
विरलैर्दन्तै- ।।।ss,
गम्भीराक्षो मितनासाग्रः॥ 55ss, Isss.
निर्मासहनुः स्फुटितैः केशै- ssis, ।। 55, .
त्रासमकं लभते दुःखम् ।। 55।।, sss.