________________
४८
नारायणभट्टीसहितवृत्तरत्नाकरेषड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयात्रयः।
प्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ (शि.२-२६) य-विपुलोदाहरणानि
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलकृता । नपुंसकमिति शात्वा प्रियायै प्रेषितं मनः। तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ तथाप यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः॥ (शि.२-७१), एवं ज-विपुलाप्युदाहार्या । तत्र तु समपादयोश्चतुर्थादूध्वं जगणेन पथ्यावक्त्रता, सप्तमस्य लघुतामात्रत्वे ज-विपुलात्वमिति विवेकः ।स-विपुला तु कविप्रयोगाभावान्नास्ति। अन्येषांतुमते "युयुत्सुनेव"(कि.११-१५) इत्यादीनां विषमयोश्चपलादित्वात्समयोस्तु पथ्यात्वाञ्चपलापथ्यावक्कादिसंज्ञा भवन्ति । एवं विपुलापथ्येत्यादिसंज्ञा शेयाः। अत्र वृत्तिकृन्मते सर्वासु भ-विपुलादिषु विषमपादयोः प्रत्येकं चतुर्विंशतिर्भेदाः, समयोः प्रत्येकं षण्णवतिः। परस्परहतौ युग्मविपुलावत्सङ्ख्या शेया । अन्येषां मते तु मुख्यवक्त्रवत्सङ्ख्या । तथा सङ्कीर्णगणतायां सङ्कीर्णविपुलावक्त्रं भवति । भारवेः
क्वचिदने प्रसरता क्वचिदाप्लुत्य निघ्नता। शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां कुलम् ॥ (१)
कुमारे
यदध्यक्षेण जगतां वयमारोपितास्त्वया ।
मनोरथस्याऽविषयं मनोविषयमात्मनः ॥ (कु.६-१७) माघे
भवगिरामवसरप्रदानाय वांसि नः ।
पूर्वरङ्गप्रसङ्गाय नाटकीयस्य वस्तुनः ॥ (शि.२-८) इत्यादयो विपुलाभेदा अनन्ता एव कविप्रयोगेषु द्रष्टव्याः। सर्वेषु तु प्रायेण चतुर्थवर्णस्य गुरुतेति साम्प्रदायिकाः ॥ ३०॥ । इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां वक्रमकरणम् ॥
(१) नायं श्लोकः समुपलभ्यते भारवेः सुप्रसिद्धायां कृतौ किरातार्जुनीयमहाकाव्य इति विचारणीयं पण्डितः। अधुनाऽवधिभारविकवेरन्तरेण किरातार्जुनीयंन काऽपि कृतिरन्या नयनपथं श्रवणपथं वा समारूढा।