SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरेश्यामतामरसदामकोमले रामनामनि मनो मनोरमे ॥ (प्र० रा०२-२३) इत्यादि । प्रत्युदाहरणं तु-- __ नमस्तस्मै महादेवाय शशङ्कार्धधारिणे । इत्यादि । "श्लोकार्धे तु विशेषतः” इत्यस्योदाहरणं पूर्वोदाहरणे “दधीनि । अल्पव्ययेन" (वृ० र० १-११) इत्यत्र । सन्धिर्न भवति स्पष्टविभक्तिकता च भवतीति विशेषः । सन्धौ प्रत्युदाहरणम् श्यामा कामाकुला रामा वामा भोगाय चाप्यतेऽ-। नेकजन्मसु पुण्यानां निचयो न चितो यदि ॥ अत्र पूर्वरूपकरणम् । स्पष्टविभक्तिकतायां प्रत्युदाहरणम् सुरासुरशिरोरत्नस्फुरत्किरणमारी-। पिअरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवम् । अत्र समासकरणम् । “समुद्राद” इत्यत्रोदाहरणम्-"तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी" (मे० १-२)(१) इति । अत्र मन्दाक्रान्तायां चतुर्षु स्पष्टविभक्तिकता। ततः षट्स्वव्यक्तविमक्तिकता। 'पादान्ते' इत्यस्यापि विशेषणं "व्यक्ताव्यक्तविभक्तिके" इति । तत्रोभयोदाहरणम्-- स्यन्दने गरुडकेतुलाञ्छने कुण्डिनेशतनयाधिरोपिता। केन चिन्नवतमालकोमल श्यामलेन पुरुषेण नीयते ॥ क्वचिदिति । समुद्रादौ या यतिः सा पदमध्येऽपि क्वचिद्भवति । यदि पदस्य यत्यपेक्षया पूर्वपरभागावेकवौँ न भवत इत्यर्थः । अत्रोदाहरणम्-“पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशौ” इति । समुद्रादावित्युक्तेः पादान्तयतिः पदमध्ये न भवति । प्रत्युदाहरणम् "प्रणमत भवबन्धक्लेशनाशाय नारा यणचरणसरोजद्वन्द्वमानन्दहेतुम्"। पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिर्दोषाय । सा च धातुनामप्रत्ययाऽव्ययभागभेदेन चतुर्धा । तत्र क्रमेणोदाहरणनि-"एतासां राजति (१) सम्पूर्णः श्लोकस्त्वित्थम्तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः॥ आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसार्नु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ ( मे०१-२)
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy