SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । अत्रोदाहरणमूह्यम् । श्रयं प्राकृतविचारः पञ्चमाध्यायान्तवक्ष्यमाणप्राकृतच्छन्दः सूपयोगात्कृत इत्यलं बहुना ॥ ११ ॥ परिभाषान्तराण्याह अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः । ज्ञेयः पादश्चतुर्थांशो यतिर्विच्छेदसंज्ञितः ॥ १२ ॥ लोकतो लोकव्यवहारादन्ध्यादीनां संज्ञाः सङ्क्षेपेण संज्ञया ज्ञायन्ते इति संज्ञाः संज्ञीभूताः । चतुरादिसङ्ख्या इति यावत् । ज्ञेया यतिनियमेषु । तद्यथा— अब्धयश्चत्वारः, भूतानि पञ्च, रसाः षट् । श्रादिपदादश्वा मुनयश्च सप्त, वसवो नागाश्चाष्टौ ग्रहा नव, दिशो दश रुद्रा एकादश, श्रादित्या द्वादश, इत्येवमादि ज्ञेयम् । श्रब्ध्यादिशब्दाः स्वपर्यायाणां स्वार्थसङ्ख्यासमानसङ्ख्यार्थानां चाप्युपलक्षकाः । तेन समुद्रवेदादयोऽपि लोकतो ज्ञेयाः । तथा छन्दः शास्त्रत्वाच्छन्दसश्चतुर्थो भागः पादो शेयः पादादिव्यवहारेषु । अंशः समचतुर्थीशोऽत्र न ग्राह्यः । किं तु यावान्यत्रोक्तः । तथा च समानां विषमाणां चोद्गतादीनां पादाः सङ्गृहीता भवन्ति । पादशब्दः स्वपर्यायाणामङ्घ्रिचरणादिशब्दानामुपलक्षकः । तथा यतियतिशब्दो विच्छेदे विरामे संज्ञितः परिभाषितः संज्ञाकृतो ज्ञेयः । 'संज्ञिता' इति पाठे यतिशब्दसामानाधिकरण्यात्स्त्रीलिङ्गता ज्ञेयेति च विपरिण तानुषङ्गः । इयं च यतिस्तृतीयान्तेष्वन्ध्यादिनिर्देशेषूपतिष्ठते । साकाङ्क्षत्वात् । श्रग्ध्यादिसङ्गख्येष्वक्षरेषु यतिः स्यादित्यर्थः । इयं च यतिः श्रुतिसौकर्यार्थं नियतस्थानेषु कार्या । यतिनियमस्थानानि च वृद्धैः गृहीतानि यतिः सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥ चित्तु पदमध्येsपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥ पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिवत् । पष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ नित्यं प्राक्पदसम्बद्धाश्चादयः प्राक्पदान्तवत् । परेण नित्यसम्बद्धाः प्रादयश्च परादिवत् ॥ इति । एषामर्थ उदाहरणेन स्पष्टीक्रियते । “यतिः सर्वत्र पादान्ते" इत्यस्यो - दाहरणम् मे सखि ! शिखण्डमण्डने. पुण्डरीककमनीयलोचने ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy