________________
प्रथमोऽध्यायः ।
१५
सुमनसां दाम कण्ठावलम्बि", "स्वीकुर्वन्ति हि सुधियः प्रकुर्वते च", "दुःसोढो दाशरथिमहिमा राक्षसानां बभूव", "सुरासुरशिरोनिघृष्टचरणारविन्दः शिवः”, “स्खलति सुरवधूकल्पासु रामासु को न”, “भुवि, सुरगुरुदेशीयाः कियन्तो न सन्ति”, “कलिवशविवशः सम्प्रत्ययं जीवलोकः” "रामेशं वा प्रतिदिनमुताहो रमेशं भजामः” । एवमन्यान्यपि सङ्कीर्णान्युदाहरणानि ज्ञेयानि । “पूर्वान्तवत्स्वरः सन्धौ” इत्यस्यार्थः योऽयं पूर्वपरयोरेकादेशः स्वरः सन्धौ सवर्णदीर्घादिः, स प्रायः पूर्वान्तवत्क्वचिदेव परादिवच्च द्रष्टव्य इति । श्रत एव " श्रन्तादिवच्च" ( पा० सू० ६-१८५ ) इति पाणिनिः सस्मार । पूर्वान्तवद्भावे यथा -- “कस्ते दारिद्यदावानल ! वदतु यशो वावदूकोऽपि दाने” “स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा” (मे.१-५१ ) (१)
-
परादिवद्भावे यथा - "श्रन्तेवासिदयालुरुज्झितन येनासादितो जिष्णुना” (वेणी० ३-९) (२) अत्र स्वरस्य परादिवद्भावे व्यञ्जनमपि परादिवद्भवति । तद्भक्तत्वात् ।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ । इति ।
पूर्वान्तवत्स्वरः सन्धावित्यादेरपि शेषः । तेन - "अस्या वक्ताब्जमवजितपूर्णेन्दुशोभं विभाति" इत्यादौ यतिर्दुष्यति । तत्रापि पूर्वभागस्यै - वैकवर्णतायां दोषः न तूत्तरस्य । तदर्थमेव स्वरसन्धावनेनापवादकरणात् । यणादेशः परादिवदित्यत्रोदाहरणम् - "सप्ताकृपारपारप्रथितपृथुयशस्यर्थिसोर्थे कृतार्थे” । व्यञ्जनस्यापि परादिवद्भाव इष्यते । यथा--"इत्यौत्सुक्या
(१) सम्पूर्णः श्लोकस्त्वित्थम् -
तस्याः पातु सुरगज इव व्योम्नि पश्चाऽर्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ॥ संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययाऽसौ
स्यादस्थानोपगतयमुनासङ्गमेवाऽभिरामा ॥ (मे० १-५१) (२) सम्पूर्णः श्लोक एवम् -
किं भीमाद् गुरुक्षिणां गुरुगदां भीमप्रियः प्राप्तवान् अन्तेवासिदयालुरुञ्झितनयेनासादितो जिष्णुना ॥ गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम् ॥ (वेणी० ३-९)