SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे'तस्याः खुरन्यासपवित्रपांसुम्' (रघु० २-२)(१)इत्यादौ च गुरुतैव । युक्तपरश्चेति व्यजनोपध्मानीयजिह्वामूलीयपराणामुपलक्षणम् । तथा च-'तनुवाग्विभवोऽपि सन्' (रघु.१-९)(२) मन्दः कवियशःप्रार्थी' (रघु.१-३)(३)इत्येवमादिषु सकारस्य, जिह्वामूलीयोपध्मानीयपक्षे च दकार-शकारयोर्गुरुत्वं सिद्धं भवति । इतरथा नकारस्य पादान्तत्वात्सकारस्य न प्रामोति, जिह्वामूलीयोपध्मानीययोश्च संयोगत्वाभावाइकार शकारयोर्न प्राप्नोति । तदुक्तम्- . . . दीर्घ संयोगपरं तथा प्लुतं व्यञ्जनान्तमूष्मान्तम् । सानुस्वारंच गुरुं क्वचिदवसानेऽपिलध्वन्त्यम् ॥ (पि०सू०१-४) इति । - व्यञ्जनपरस्य गुरुत्वाल्लध्वन्तपादेषु समान्यादिषु व्यञ्जनान्तः पादो न कार्यः । ननु"संयोगे गुरु" (पा.सू.१-४-११) "दीर्घ च" (पा.सू.१-४-१२) इति वदता पाणिन्याचार्येण पादान्तस्थादीनां गुरुसंशायामनुक्तत्वात्तद्विरोध इति चेत्, मैवम् । 'कुण्डा' 'हुण्डा' इत्यादिषु "गुरोश्व हल" (पा.सू.३-३-१०३) इत्यकारप्रत्ययस्य, 'ईहाञ्चक्रे', 'ऊहाञ्चक्र', इत्यादिषु च "इजादेश्च गुरुमतोऽनृच्छः (पा.सू.३-१-३६)इत्याम्प्रत्ययस्य सिद्धयर्थं स्वशास्त्रे संयोगपरदीर्घयोर्गुरुत्वं पाणिनिः प्रत्यशासीत् । अन्ये षु तु स्वशास्त्रे प्रयोजनाभावान्नोचे न त्वभावादिति न किं चिदेतत् । वृत्तिकारस्तु 'गन्ते (पि.सू.२-१०)इतिसूत्रे वाशब्दाऽश्रवणात्सर्वत्र पादान्तस्थस्य लोगुर्भवतीति व्याचख्यौ तदयुक्तम् । गुरुलघुभ्यां लघुभिरेव च समाप्तयोः समानीगीत्यार्ययोर्व्यभिचारात् । अथ तत्र लघुसमाप्तिविधायकशास्त्रेण विशेषशास्त्रेण सामान्यस्याऽस्य बाध इति मतम्, तदपि ::.: (१) सम्पूर्णः लोकस्त्वित्थम्१ तस्याः खुरन्यासपवित्रपांसु मपांसुलानां धुरि कीर्तनीया । मार्ग मनुष्येश्वरधर्मपत्नी श्रुतेरिवाऽथं स्मृतिरन्वगच्छत् ॥ (रघु.२-२) -: (२) सम्पूर्णः श्लोक एवम् रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ॥ तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ (रघु.१-९) (३) पूर्णः श्लोक एवम् मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ॥ प्रांशुलभ्ये फले लोभादुदाहुरिव वामनः ॥ (रघु.१-३)
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy