________________
प्रथमोऽध्यायः। ..... तदुक्तं भामहेनैव- : :
देवतावाचकाः शब्दा ये च भद्रादिवाचकाः।
ते सर्वे नैव निन्द्या स्युलिपितो गणतोऽपि वा ॥ इति । - तथा च माघ-किरातयोर्जगणसंयोगयोः प्रयोगेऽपि श्रीशब्दप्रयोगाहोषाभाव इत्यलं भूयसा प्रसक्तेन । प्रकृतमनुसरामः॥७॥ इदानी मात्राच्छन्दःसूपयोगिनो गणानाह-..
ज्ञेयाः सन्तिमध्यादिगुरवोऽत्र चतुष्कलाः।
गणाश्चतुलेघूपेताः पञ्चायोदिषु संस्थिताः॥८॥ अत्र शास्त्रे आर्यादिषु छन्दःसु स्थिताश्चतुष्कलाश्चतुर्मात्राः पच गणा क्षेयाः। प्राकट्याय स्वरूपतस्तानाह–सर्वेति । सर्वत्रान्ते मध्ये प्रादौ च गुरुर्येषां ते तथा । कथम्भूताः चतुर्लघुना गणेनोपेता युक्ताः । तत्र चतुर्मात्रिकृत्वात्सर्वगुरुर्द्विगुरुर्लभ्यते । यथा
सर्वगुरुः अन्त्यगुरुः मध्यगुरुः आदिगुरुः चतुर्लघुः . SS . IS SI SUN
अयं गणक्रम प्रार्यानष्टोद्दिष्टयोरुपयोगीति तत्रैव वक्ष्यते । पञ्चकलादयस्तु प्राकृतप्रक्रमे वक्ष्यन्ते, संस्कृतेऽनुपयोगात् ॥ ८ ॥ गणाँल्लक्षयित्वा गुरु लक्षयतिसानुस्वारो विसर्गान्तो द? युक्तपरश्च यः ।
वा पादान्ते त्वसौ ग्वको ज्ञेयोऽन्यो मात्रिको लुजुः ॥६॥ .... असौ वर्णो ग गुरुज्ञेयः । कोऽसावित्यपेक्षायामाह-सानुस्वार इति । अनुस्वारेण युक्तः अं-कं-इत्यादिः, विसर्गान्तः श्रः-का-इत्यादिः, दीर्घः श्रा-का इत्यादिः । इदं प्लुतस्याप्युपलक्षणम् । युक्तपरो युक्तः संयुक्तः परो यस्य सः। संयोगे परभूते यः पूर्वः सोऽपि गुरुरित्यर्थः । यथा विष्णुरित्यादौ विशब्दादिः । पादान्ते श्लोकचरणान्ते वर्तमानो लघुर्गुरुर्वा भवति । लघुत्वेऽपेक्षिते लघुकार्य, गुरावपेक्षिते गुरु कार्य करोतीत्यर्थः । अयं च व्यवस्थितविकल्पः । तेन “अथ वासवस्य वचनेन"( कि० १२-१) (१)इत्यादावुद्गतादिपाढान्तस्थ ‘लघुतैव ।
(१) सम्पूर्णः श्लोकस्त्वित्थम्अथ वासवस्य वचनेन ।
रुचिरवदनस्त्रिलोचनम् ॥ .. . क्लान्तिरहितमभिराधयितुं
विधिवत्तपांसि विदधे धनम्जयः । (कि० १२-१)