________________
नारायणभट्टीसहित वृत्तरत्नाकरे
भृत्याच्चेत्स्यादुदासो धनविगममथो भृत्यतः शत्रुसंज्ञः शोकं कुर्यादुदासाद्यदि भवति तदा भित्रसंशोऽल्पकार्यम् ॥ तस्माद् भृत्यः प्रभुत्वं तत इह सततं स्यादुदासो विनाशं तस्माच्छत्रुः स्ववैरं विविधगुणहरं सर्वसत्कार्यनाशम् ॥ शत्रोर्मित्रं च शून्यं यदि भवति ततो भृत्यसंज्ञो गृहिण्या
नाशं तस्मादुदासो धनहरमधिकं दुःखदारिद्यूशोकम् ॥ शत्रोः शत्रुर्भवेच्चेदुद्विगणसुसहितो नायकस्यैव नाशं ।
देशोद्वासं विधत्ते कथयति च फलं पिङ्गलो नागराजः ॥ इति । श्रत एव किरात- माघ- नैषधीयेषु दुष्टफलादप्युदासीनाज्जगणादुदासीनस्य तगणस्य सत्त्वान्न शुभं न चाशुभमिति दोषाभावः । अथ गणशुद्धिप्रसङ्गाद्वर्णशुद्धिरुच्यते । तच्छृद्धौ हि नायकादीनां सुखं भवति तदुक्तम्
अक्षरे परिशुद्धे तु नायको भूतिमृच्छति । इति ।
अत्र ऋ-ङ-झ ञ ट ठ ड ढ ण-प-फ-ब-भ-म-र-ल-व-ष-ह- लान्संयुताक्षराणि च विहाय शेषाक्षराणि शुभफलानीति सङ्क्षेपः । तदुक्तं -भामहेन -
वर्णात्सम्पत्तिर्भवति मुदिवर्णाद्धनशता
न्युवर्णादख्यातिः सरभसमृवर्णाद्धरहितात् ॥ तथा चः सौख्यं ङ-अ-रा-रहितादक्षरगणात् पदादौ विन्यासाद् भ-र-ब-ह-ल-हाहाविरहितात् i
तथा
कः खो गो घश्व लक्ष्मों वितरति, वियशो उस्तथा चः सुखं, छः 'प्रीतिं, जो मित्रलाभं, भयमरणकरौ भू-ञ ट ठौ खेददुःखे ॥ डः शोभां दो विशोभां, भ्रमणमथ च रास्तः सुखं, थश्च युद्धं दोधः सौख्यं मुदं नः सुखभय मरणक्लेशदुखं पवर्गः ॥ यो लक्ष्मीं, रश्ध दाहं, व्यसनमथ ल-वौ, शः, सुखं षश्च खेदं,
सः सौख्यं, हश्च खेदं, विलयमपि च लः, क्षः समृद्धिं करोति ॥ संयुक्तं चेह न स्यात्सुखमरणपटुर्वर्णविन्यासयोगः
पद्यादौ गद्यवक्त्रे वचसि च सकले प्राकृतादौ समोऽयम् ॥ इति । तथा दुःखदारिद्यवाचका दुष्टाः शब्दाः काव्यादौ न प्रयोज्याः । अयं च प्रयोगनिषेधः काव्यादौ मुक्तकश्लोके चादौ शेयः । देवतादिवाचके शब्दे तु गणविचारेऽक्षरविचारे वा दोषाऽभावः ।
·