________________
प्रथमोऽध्यायः।
न । सिद्धन हि लघुना समाप्तिर्विधीयते न तु समाप्तिस्थस्य लघुत्वं येन बाधः स्यात् । “गन्ते” (पि.सू.२-१०) इति सूत्रं त्वन्ते पदान्ते स्थितो लघुः क्वचिद् गुरुरिति क्वाचित्कत्वाभिप्रायं व्याख्येयम् । तेन. न तद्विरोध इत्यलं प्रपञ्चेन । प्रकृतमनुसरामः । स च प्रस्तारे वक्र: नागराक्षकारप्रश्लेष(s)चिह्नवज्यो लेख्यः। पूर्वोक्तभ्यः सानुस्वाराादभ्योऽन्यः लू लघुः। कोऽसावन्यः मात्रिको मात्रारूपः । एतेन गुरोद्धिमात्रत्वमुक्तं भवति । स प्रस्तारे कर्तव्ये ऋजू रेखाकारः (1) कार्यः ॥६॥ (१) संयोगपरस्य गुरुत्वे क्वचिदपवादमाहपादादाविह वर्णस्य संयोगः क्रमसंज्ञकः। पुरस्थितेन तेन स्याल्लघुतापि क्वचिद गुरोः ॥१०॥ इह च्छन्दःशास्त्रे पादादौ चरणादौ वर्णस्य वर्णान्तरेण संयोगः क्रमसंज्ञकः । पूर्वाचार्यैरुक्त इति शेषः । तेन पादादिसंयोगेन पुरःस्थितेन क्वचिदपेक्षितविषये संयोगपरत्वादु गुरोरपि लघुता स्यात् । 'वा पादान्ते' (वृ.र.१-६) इत्यत्र पादान्ते लघोर्गुरुत्वं विकल्पितम् । इह तु गुरोर्लघुत्वमिति न पौनरुक्त्यमिति भावो वक्ष्यते ॥१०॥ गुरोर्लघुतायामुदाहरणं सप्रतिशमाह इदमस्योदाहरणम्तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि। अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥११॥
अस्य पूर्वश्लोकार्थस्य । अत्र ग्राम्यनागरिकवरागमे ग्राम्यवरे साभिलाषां चतुरवधू निन्दागर्भस्तुत्या निवारयन्ती सख्याह-हे सुन्दरि ! ग्राम्यजनो ग्रामीणो जनोऽल्पव्ययेन मिष्टं रसवदशनमश्नाति भुङ्क्ते किं तत् तरुणं कोमलं सर्षपानां शाकम् , नवानां तण्डुलानामोदनं वाऽपर्युषितौदनं वा, पिच्छिलानि बद्धानि दधीनीति अल्पद्रव्यो मिष्टाभासभोजी ग्राम्यजनोऽचतुरोऽयम् । त्वं च सुन्दरी अतोऽमुं परित्यज्य नागरिके साभिलाषा भवेत्यत्र ध्वन्यम् । अत्र सुन्दरीत्यत्र संयोगपरत्वाद्गुरुत्वे सति तृतीये पादे त्रयोदश मात्रता माभूदिति लघुत्वं प्रतिज्ञायते । तथा च द्वादशमात्रतेवेति भावः । क्वचिदिति व्यवस्थितविकल्पार्थम् । तेन सुन्दरीत्यत्र लघुतैव।
(१) अन्ये तु (-) गुरुरेवं (-) लघुरेवं लेख्यः। तथा च वाणीभूषणे
गुरुस्तु द्विकलो शेयो गजदन्तसमाऽऽकृतिः॥ लघुस्तदन्यः शुद्धोऽसावेकमात्रः प्रकीर्तितः ॥ इति