________________
वृत्तरत्नाकरे
उपान्त्यतो निवर्तेत त्यजनकैक मूर्ध्वतः ॥ उपर्याद्यद्गुरोरेकमेकद्वयादिलगक्रिया ॥ ७ ॥ लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ।। उद्दिष्टासमाहारः सैको वा जनयेदिमाम् ॥ ८ ॥ सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ वृत्तस्याङ्गलिकी व्याप्तिरधः कुर्याशथाङ्गलिम् ॥ ९ ॥ वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैव सिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ॥ केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचिशश्छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम् ॥ १० ॥
इति श्रीकेदार भट्टविरचिते वृत्तरत्नाकरे षष्ठोऽध्यायः ।
२६९
समाप्तश्चायं ग्रन्थः