SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। म्सौ ज्भौ गौ प्रथमाज्रिरेकतः पृथगन्य. त्रितयं सनजरगास्ततो नलौ सः ।। त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ २॥ नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाघ्रिकृतयतिस्तु वर्धमानम् ॥ त्रितयमपरमपि वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम ॥ १० ॥ अस्मिन्नेव तृतीयके यदा तजराः स्युः प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥ तच्छुद्धविराट् पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ ११ ॥ विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ॥ यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ १२॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे पञ्चमोऽध्यायः । षष्ठोऽध्यायः । प्रस्तारो नष्टमुद्दिष्टमेकवादिलगक्रिया ॥ सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः॥१॥ पादे सर्वगुरावाद्याल्लघु न्यस्य गुरोरधः ।। यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ २॥ ऊने दद्याद् गुरूनेव यावत्सर्वलघुर्भवेत् ॥ प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥३॥ नष्टस्य यो भवेदकस्तस्यार्धे समे च लः ॥ विषमे चैकमाधाय स्यादर्धेऽर्धे गुरुर्भवेत्॥४॥ उहिष्टं द्विगुणानाद्यादुपर्यान्समालिखेत् ॥ लघुस्था ये च तत्राङ्कास्तैः सैकैमिश्रितैर्भवेत् ॥५॥ वर्णान्वृत्तभवान्सकानौत्तराधर्यतः स्थितान् ॥ एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥ ६॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy