________________
श्रीः
श्रीनारायणभट्टरचितया व्याख्यया सहितः ।
वृत्तरत्नाकरः प्रथमोऽध्यायः
नत्वा गणेशं वाग्देवीं पिङ्गलं मातरं गुरुम् ॥ अन्यानपि च भाष्यादिकश्छन्दोविशारदान् ॥ श्रीभट्टरामेश्वरसूरिसनुर्नारायणः स्वामनुरुध्य बुद्धिम् ॥ सक्षेपवृत्त्या विवृति सुवृत्तरत्नाकर व्यक्ततया तनोति ॥ विशिष्टशिष्टाऽऽचारमूलभूत “स्वस्ति न इन्द्रो वृद्धश्रवाः” इत्यादिवै. दिकलिङ्गकल्पितश्रुतिप्रमाणकविशिष्टेष्टदेवतानमस्कारजनितनिर्विघ्रतादिः स्वनामकीर्तनपूर्वकं स्वग्रन्थस्य ग्रन्थान्तरैरगतार्थतां च सूचयन् सप्रयोजनं कर्तव्यं सामान्यज्ञानपूर्वकविशेषजिज्ञासुप्रवृत्ति सिद्धयर्थं सामान्यतः प्रतिजानीते सुखेत्यादिश्लोकत्रयेण
सुखसन्तानसियर्थ नत्वा ब्रह्माऽच्युतार्चितम् ।। गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥१॥ वेदा(१)ऽर्थशैवशास्त्रज्ञः पत्येकोऽभूद्विजोत्तमः ॥ तस्य पुत्रोऽस्ति केदारः शिवपादाऽर्चने रतः ॥२॥ तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ॥
वृत्तरत्नाकरं नाम बालानां सुखसिद्धये ॥३॥ ब्रह्माऽच्युताभ्यां = विधातृविष्णुभ्याम् । अचितं =पूजितम् । गौर्या पार्वत्या, विनायकेन = गणाधिपेन चोपेतम् । लोकानां चतुर्दशभुवनानां, भूरादीनां सप्तानां वा । शङ्करं सुखकर्तारम् । एवंविधं शङ्करं महादेवम् । सुखसन्तानसिद्ध्यर्थं प्रणामजनिताऽविघ्नतादिसम्भूताऽव्याकुलीभावबुद्धि
(१) अत्र पञ्चिकाकारमते 'वेदान्तशैवशास्त्रज्ञः' इति पाठः ।