________________
२४
सुवृत्ततिलकम् ।
यथा मम--
तौ जन्मगूढौ चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ ॥ तं दुःसहास्ता ज्वलदिन्द्रवज्रपातोपमाः क्लेशदशा विशन्ति ॥ जतजैर्गुरुयुग्मेन संसक्तैरुपलक्षितम् ॥
वदन्त्युपेन्द्रवज्राख्यं वृत्तमेकादशाक्षरम् ॥ १६ ॥ यथा मम--
जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति ॥ उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥ पदानन्तरविन्यासयोगैर्बहुभिरेतयोः।। वैचित्र्यजातिरुचिरा भवन्त्येवोपजातयः ॥ २० ॥ भकारत्रयसंयुक्तमन्ते गुरुयुगान्वितम् ।।
कथितं दोधकं नाम वृत्तमेकादशाक्षरम् ।। २१ ॥ यथा मम--
भो भवविभ्रमभङ्गुरभोगा गच्छत नास्त्यधुना मम मोहः ॥ तिष्ठति चेतसि चन्द्रकलाभृद्भक्तजनाभयदोऽथ कपाली ॥ पूर्वाक्षरचतुष्कान्तविरतिर्मततान्विता ।। गुरुद्वितययुक्ता च शालिन्येकादशाक्षरा ॥ २२ ॥
यथा मम--
मत्ता गोष्ठीगर्भमूढप्रलापा प्रौढा गाढालिङ्गिता यौवनेन ॥ मध्वाताम्रस्वेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ॥ रनरैरन्वितं युक्तं लघुना गुरुणा तथा ॥
ख्यातं रथ द्धतानाम वृत्तमेकादशाक्षरम् ॥ २३ ॥ यथा मम
रम्यनर्मकलभोगतर्जनी भूलतेव तरलारियोषिताम् ॥ वैजयन्त्यभिमुखी रणे रणे भाति ते नरपते रथोद्धता ॥ गुरुद्वययुतैरन्तेरनभैरुपलक्षिता ॥
गदिता स्वागतानाम वृत्तमेकादशाक्षरम् ॥ २४ ॥ यथा मम--
रत्नभङ्गविमलैर्गुणतुङ्गैरर्थिनामभिमतार्पणसक्तैः ॥ . स्वागताभिमुखनम्रशिरस्कैर्जीव्यते जगति साधुभिरेव ॥ सकारैरन्वितं वृत्तं चतुर्भिर्युगपत्स्थितैः ।। उदितं तोटकं नाम वृत्तहादशाक्षरम् ।। २५ ।।