SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ यथा मम- सरसः स्मरसारतरो वयसः समयः स्मृतिशेषदशापतितः ॥ गलिताखिलरा गरुचिर्विजने परितेाऽट कपालकरः सुमेत ! ॥ संल्लक्षितं जतजरैर्द्वादशाक्षरमक्षरैः ॥ छन्दोविचक्षणा वृत्तं वंशस्थाख्यं प्रचक्षते ॥ २६ ॥ यथा मम- यथा मम- जनस्य तीव्रातपजार्तिवारणा जयन्ति सन्तः सततं समुन्नताः ॥ सितातपत्रप्रतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः ॥ अभिव्यक्तं नभभरैरक्षरैर्द्वादशाक्षरम् || वदन्ति वृत्तजातिशा वृत्तं द्रुतविलम्बितम् ।। २७ ।। प्रथमो विन्यासः । यथा मम नभसि भर्गगलच्छविभिर्घनै द्रुतविलम्बितगैः परिवारितः ॥ सितकरः कलहंस इवाभितस्तरति संवलितो यमुनोर्मिभिः ॥ समन्वितं मनजरैश्छिन्नं पूर्वाक्षरैस्त्रिभिः ।। त्रयोदशाक्षरं नाम्ना कीर्तयन्ति प्रहर्षिणीम् ।। २८ ।। · यथा मम - मानौजः सुरभिगुणैर्यशः सितानां निर्व्याजा निजभुजविक्रमक्रमाप्ता ॥ सर्वाशाप्रणयिजनोपजीव्यमाना भव्यानां भवति परप्रहर्षिणी श्रीः || अभिज्ञातं तभजजैरन्तासक्त गुरुद्वयम् ॥ चतुर्दशाक्षरं वृत्तं वसन्ततिलकं विदुः ।। २६ ।। यथा मम तद्भाजि जन्मसचिवे भगवत्यनङ्गे प्राप्ते लसत्कुसुममण्डलपाण्डुरेण ॥ भृङ्गावली कुटिलकुन्तलसन्निवेशा कान्ता वसन्ततिलकेन विभूषिता भूः ॥ अष्टाक्षरविरामेण युक्ता ननमयैः सयः ॥ वदन्ति मालिनीनाम वृत्तं पञ्चदशाक्षरम् ।। ३० ।। ननननमयवाणी मेखलाकृष्टिकाले प्रविचलदिव शीलं नोत्सृजन्ती दुकूलम् ॥ तृणलवचनेऽपि स्वैरिणी शङ्कमाना दिशि दिशि कृतदृष्टिर्मालिनी कस्य नेष्टा ॥ नजभैर्जजलैरन्तगुरुभिर्न कुटाभिधम् ॥ वृत्तं चानष्टविच्छेदं विदुः सप्तदशाक्षरम् ।। ३१ ।। ३२ २४६
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy