________________
छन्दोमार्याम्
(१५) अत्यष्टिः । (सप्तदशाक्षरा वृत्तिः ।) रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी ॥३॥
करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो
विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ॥ इति त्रस्यद्गोपानुचितनिभृतालापजनितं
स्मितं विभ्रद्देवो जगदवतु गोवर्धनधरः ॥ जसौ जसयला वसुग्रहयातिश्च पृथ्वी गुरुः ॥२॥ दुरन्तदनुजेश्वरप्रकरदुस्थपृथ्वीभरं
जहार निजलीलया यदुकुलेऽवतीर्याशु यः ॥ स एष जगतां गतिर्दुरितभारमस्मादृशा
__ हरिष्यति हरिः स्तुतिस्मरणचाटुभिस्तोषितः ॥ दिङ्मुनि वंशपत्रपतितं भरनभनलगैः॥२॥ नूतनवंशपत्रपतितं रजनिजललवं
पश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् ॥ एष चतं चकोरनिकरः प्रपिबति मुदितो ___वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥ सम्प्रति लब्धजन्म शनकैः कथमपि लघनि
क्षीणपयस्युपेयुषि भिदां जलधरपटले ॥ खण्डितविग्रहं बलभिदो धनुरिह विविधाः
___पूरयितुं भवन्ति विभवः शिखरमणिरुचः॥ इति भारवौ । वंशपत्रपतितेति केचित् ।। मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मम् ॥ ४ ॥ प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्गनायै
मन्दाक्रान्ता तदनु नियतं वश्यतामेति बाला ॥ एवं शिक्षावचनसुधया राधिकायाः सखीनां ।
प्रीतः पायात्स्मितसुवदनो देवकीनन्दनो नः ॥ नसमरसला गः षड्वेदैहयैर्हरिणी मता ॥ ५ ॥ व्यधित स विधिर्नेत्रं नीत्वा ध्रुवं हरिणीगणा
द्वजमृगदृशां सन्दोहस्योल्लसन्नयनश्रियम् ॥ यदयमनिशं दूर्वाश्याम मुरारिकलेवरे
व्यकिरदद्धिकं बद्धाकाङ्क्ष विलोलविलोचनम् ॥ यदि भवतो नजौ भजजला गुरु नर्दटकम् ।। ६ ॥