________________
द्वितीयः स्तबकः ।
प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम् ॥ ४ ॥ सुरमूलमण्डपे विचित्ररत्ननिर्मिते लसद्वितानभूषिते सलीलविभ्रमालसम् ॥
सुराङ्गनाभवल्लवीकरप्रपञ्चचामर
स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥
भौ नो नौ गो मदनललिता वेदैः षडृतुभिः ॥ ५ ॥ विभ्रष्टस्त्रग्गलितचिकुरा धौताधरपुटा
ग्ला यत्पत्रावलिकुचतटोच्छ्वासोर्मितरला ॥ राधाऽत्यर्थं मदनल लितान्दोलालसवपुः
कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥
नजभजरैर्यदा भवति वाणिनी गयुक्तैः ॥ ६ ॥ स्फुरतु ममाननेऽद्य ननु वाणि ! नीतिरम्यं तव चरणप्रसादपरिपाकतः कवित्वम् ॥ भवजलराशिपारकरणक्षमं मुकुन्दं
सततमहं स्तवैः स्वरचितः स्तवानि नित्यम् ॥
यमौ न स्रौ गश्च प्रवरललितं नाम वृत्तम् ॥ ७ ॥ भुजोत्क्षेपः शून्ये चलवलयभङ्कारयुक्तो
मुधा पादन्यासः प्रकटिततुलाकोटिनादः ॥ स्मितं वक्त्रेऽकस्माद् दृशि पटुकटाक्षोर्मिलीला हरौ जीयादीद्वक्प्रवरललितं बल्लवीनाम् ॥
द्विगुणितवसुलघुभिरचलधृतिरिह ॥ ८ ॥ तरणिदुहितृतरुचिरतरवसति
रमरमुनिमुखजन विहितनुतिरिह ||
मुररिपुरभिनवजलधररुचितनु
रचलधृतिरुदयति सुकृतिहृदि खलु ॥
गरुडरुतं नजौ भजतगा यदा स्युस्तदा ॥ ६ ॥ श्रमरमयूर मानसमुदे पयोदध्वनि
fosed मुरारिभुजगेन्द्रसन्त्रासने ॥ धरणिभरावतारविधि डिण्डिमाडम्बरः
स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥
२३१