________________
छन्दोमअर्याम्सा सुवर्णकेतकं विकाशि भृङ्गपूरितं
पञ्चबाणबाणजालपूर्ण हेमतूणकम् ॥ राधिका वितळ माधवाद्य मासि माधवे
___ मोहमेति निर्भरं त्वया विना कलानिधे ! ॥ म्रौ मो यो चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखा ॥८॥ विच्छेदे ते मुरारे ! पाण्डुप्रकाशा कृशाङ्गी
म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा॥ राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखा
किंचार्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥ चित्रा नाम च्छन्दश्चित्रं चेत्रयो मा यकारौ ॥ ६॥ गोपालीलीलालोला यद्वत्कलिन्दात्मजान्ते
खेलन्मुक्ताहारारण्यस्रग्लसन्मूर्धचित्रा ॥ कंसारातेमूर्तिस्तद्वन्मे हृदि क्रीडतीयं कोऽन्यः स्वर्गो मोक्षो वास्माद्विद्यते तन्न जाने ॥
(१६) अष्टिः । (षोडशाक्षरा वृत्तिः।) चित्रसंज्ञमीरितं समानिकापदद्वयं तु ॥१॥ विद्रुमारुणाधरौष्ठशोभि वेणुवाद्यहृष्ट
बल्लवीजनाङ्गसङ्गजातमुग्धकरटकाङ्ग! ॥ त्वां सदैव वासुदेव ! पुण्यलभ्यपाद ! देव !
वन्यपुष्पचित्रकेश ! संस्मरामि गोपवेश! ॥ . भ्रत्रिनगैः स्वराङ्कमृषभगजविलसितम् ॥ २ ॥ यो हरिरुच्चखान खरतरनखशिखरै
दुर्जयदैत्यसिंहसुविकटहृदयतटम् ॥ -- किं न्विह चित्रमेतदखिलमपहृतवतः
कंसनिदेशप्यदृषभगजविलसितम् ॥ गजतुरगविलसितमिति शम्भौ । भात्समतनगैरष्टच्छेदे स्यादिह चकिता ॥३॥ दुर्जयदनुजश्रेणी दुश्चेष्टाशतचकिता
यद्भुजपरिघत्राता याता साध्वसविगमम् ॥ दीव्यति दिविषन्माला शश्वनन्दनविपिने
गच्छत शरणं कृष्णं तं भीता! भवरिपुतः ॥