________________
द्वितीयः स्तबकः।
२३३
व्रजवनितावसन्तलतिकाविलसन्मधुपं
मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् ॥ विभुमभिनौति कोपि सुकृती मुदितेन हृदा
. रुचिरपदावलीघटितनर्दटकेन कविः ॥ हयऋतुसागरैर्यतियुतं यदि कोकिलकम् ॥ ७ ॥ लसदरुणेक्षणं मधुरभाषणमोदकर
मधुसमयागमे सरसकेलिभिरुल्लसितम् ॥ अलिललितद्युतिं रविसुतावनकोकिलकं
ननु कलयामि तं सखि ! सदा हृदि नन्दसुतम् ॥ वेदवश्वैर्मभनमयला गश्चेत्तदा हारिणी ॥ ८ ॥ यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने
रागः स्वीयोऽधरकिसलये लाक्षारसारखनम् ॥ गौरी कान्तिः प्रकटरुचिरा रम्याङ्गरागच्छटा
सा कंसारेरजनि न कथं राधा मनोहारिणी ॥ भाराकान्ता मभनरसला गुरुः श्रुतिषड्हयैः ।। ६ ॥ भाराकान्ता मम तनुरियं गिरीन्द्रविधारणा
कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति ॥ इत्यावृण्वजयति जलदस्वनाकुलबल्लवी संश्लेषोत्थं स्मरविलसितं विलोक्य गुरुं हरिः॥
(१८) धृतिः । ( अष्टादशाक्षरा वृत्तिः । ) स्याद् भूतवश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥१॥ क्रीडत्कालिन्दिीललितलहरीवारिभिर्दाक्षिणात्यै
तिः खेलद्भिः कुसुमितलता वेल्लिता मन्दमन्दम् ॥ भृङ्गालीगीतैः किसलयकरोल्लासितैलास्यलक्ष्मी
तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ॥ ग्राम्याब्जानूपं पिशितलवणं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि सशरं निर्जलं मद्यमम्लम् ॥ धाना वल्लूरं समसनमथो गुर्वसात्म्यं विदाहि
__ स्वप्नं चारात्रौ श्वयथुगवान्वर्जयेदङ्गनां च ॥ इतिवैद्यके । नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् ॥ २॥ तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं
मधुरिपुपादपङ्कजरजःसुपूतपृथ्वीतलम् ॥