________________
छन्दोमञ्जर्याम्
प्रमिताक्षरा मुररिपोर्भणितिव्रजसुभ्रवामधिजहार मनः ॥
प्रतिकूलतामुपगते हि विधौ
विफलत्वमेति बहुसाधनता ॥ श्रवलम्बनाय दिनभर्तुरभू
द्रुतविलम्बितमाह नभौ भरौ ॥ १० ॥
२२४
न्न पतिष्यतः कर सहस्रमपि ॥ इति माघे ।
• तरणिजापुलिने नवबल्लवीपरिषदा सह केलिकुतूहलात् ॥ द्रुतविलम्बितचारुविहारिणं हरिमहं हृदयेन सदा वहे ||
ननररघटिता तु मन्दाकिनी ॥ ११ ॥ बलिदमनविधौ बभौ सङ्गता
पदजलरुहि यस्य मन्दाकिनी ॥ सुरनिहितसिताम्बुजरूङनिभा
हरतु जगदद्यं स पीताम्बरम् ॥ सहशरधि निजं तथा कार्मुक
वरतनु तथैव संवर्मितम् ॥ निहितमपि तथैव पश्यन्नसिं
वृषभगतिरुपाययौ सविस्मयम् ॥ इति भारवौ ।
श्रतिसुरभिरभाजि पुष्प श्रिया
मतनुतरतयेव सन्तानकः || तरुण परभृतः स्वनं रागिणा
मतनुत रतये वसन्तानकः । इति माघे ।
1
नयसहितौ न्यौ कुसुमविचित्रा ॥ १२ ॥ विपिन विहारे कुसुमविचित्रा कुतुकितगोपी महितचरित्रा ॥ मुररिपुमूर्तिर्मुखरितवेशा
चिरमवताद्वस्तरलवतंसा ||
इह वद तामरसं नजजा यः ॥ १३ ॥ स्फुटसुपमामकरन्दमनोशं
व्रजललनांनयनालिनिपीतम् ||