________________
२२२
छन्दोम अर्याम्
देव ! सदोध ! कदम्बतलस्थ ! श्रीधर ! तावकवामपदं मे ॥ कण्ठतले सुविनिर्गमकाले
स्वल्पमपि क्षणमेष्यति योगम् ॥
स्यान्मोटनकं तजजाश्च लगौ ॥ १२ ॥ रङ्गे खलु मल्लकलाकुशलचाणूरमहाभट मोटनकम् ॥ यः केलिलवेन चकार स मे संसाररिपुं परिमोटयतु श्येन्युदीरिता रजौ रौ गुरुः ॥ १३ ॥ यस्य कीर्तिरिन्दुकुन्दचन्दनश्येन्यशेषलोकपावनी सदा ॥
जाह्नवीव विश्ववन्द्यविभ्रमा
तं भजाभि भावगम्यमच्युतम् ॥ (१२) जगती । ( द्वादशाक्षरा वृत्तिः । ) चन्द्रव निगदन्ति रनभसैः ॥ १ ॥ चन्द्रव पिहितं घनतिमिरै
जव रहितं जनगमनैः ॥ इष्टवर्त्म तदलङ्कह सरसे !
कुञ्जवर्त्मनि हरिस्तव कुतुकी ॥ वदन्ति वंशस्थविलं जतौ जरौ ॥ २ ॥ विलासवंशस्थविलं मुखानिलैः
प्रपूर्य यः पञ्चमरागमुद्गिरन् ॥ बजाङ्गनानामपि गानशालिनां
जहार मानं स हरिः पुनातु नः ॥ वंशस्तनितमिति कापि ।
तच्चन्द्रवंशा प्रथमाक्षरे गुरौ ॥ ३ ॥ दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः
पीताम्बरोऽसौ जगतां तमोपहः ॥ यस्मिन्ममज्जुः शलभा इव स्वयं
ते कंसचारमुखा मखद्विषः || जसौ जसयुतौ जलोद्धतगतिः ॥ ४ ॥