________________
द्वितीयः स्तबकः।
अंहो हन्ति ज्ञानवृद्धि विधत्ते
धर्म दत्ते काममर्थं च सूते ॥ मुक्तिं दत्ते सर्वदोपास्यमाना
पुंसां श्रद्धाशालिनी विष्णुभक्तिः ॥ वातोर्मीयं गदिता म्भौ तगौ गः॥६॥ ध्याता मूर्तिः क्षणमप्यच्युतस्य
श्रेणी नाम्नां गदिता हेलयापि ॥ संसारेऽस्मिन्दुरितं हन्ति पुसां
___ वातोर्मी पोतमिवाम्भोधिमध्ये ॥ मो गो नौ गो भ्रमरविलसिता ॥७॥ भ्रमरविलसितं क्वापि । मुग्धे ! मानं परिहर न चिरा
त्तारुण्यं ते सफलयतु हरिः॥ फुल्ला वल्ली भ्रमरविलसिता
भावे शोभां कलयति किमु ताम् ॥ स्यादनुकूला भतनगगाश्चेत् ॥८॥ बल्लववेशा मुररिपुमूर्ति
\पमृगाक्षीकृतरतिपूर्तिः ॥ वाञ्छितसिद्ध्यै प्रणतिपरस्य
स्यादनुकूला जगति न कस्य ॥ रात्परैर्नरलगै रथोद्धता ॥९॥ राधिका दधिविलोड़नास्थता ___ कृष्णवेणुनिनदैरथोद्धता ॥ यामुनं तटनिकुञ्जमअसा
सा जगाम सलिलाहृतिच्छलात् ॥ स्वागता रनभगैर्गुरुणा च ॥ १०॥ यस्य चेतसि सदा मुरवैरी
बल्लवीजनविलासविलोलः॥ . तस्य नूनममरालयभाजः
स्वागतादरकरः सुरराजः ॥ दोधकमिच्छति भत्रितयागौ ॥ ११ ॥