________________
११६
छन्दोमार्याम्आरभ्यकाक्षरात्पादोदैककाक्षरवर्धितः । पादैरुक्था दिसंज्ञं स्याच्छन्दः षड्विंशतिं गतम् ॥ १२ ॥ उक्थाऽत्युक्था तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ॥ गायत्र्युष्णिगनुष्टुप्च बृहति पतिरेव च ॥ १३ ॥ त्रिष्टुप्च जगति चैव तथाऽतिजमती मता ॥ . शर्करी सातिपूर्वा स्यादष्टयत्यष्टी तथा स्मृते ॥ १४ ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः संस्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः॥ १५॥ इत्युक्ताश्छन्दसां संज्ञाः क्रमशो वच्मि साम्पतम् । लक्षणं सवेत्तानां मात्रावृत्तानुपूर्वकम् ॥ १६ ॥ इति छन्दोमञ्जर्या मुखबन्धाख्यः प्रथमः स्तबकः ।
द्वितीयः स्तबकः।
(१) उक्था । (एकाक्षरा वृत्तिः।) गः श्रीः॥१॥
श्रीस्ते । सास्ताम्॥
(१) अत्युक्था । (द्यक्षरा वृत्तिः ।) गौ स्त्री ॥१॥
गोपस्त्रीभिः । कृष्णो रेमे ।।
(३) मध्या । (त्र्यक्षरा वृत्तिः ।) मो नारी ॥१॥
गोपानां नारीभिः । श्लिष्टोऽव्यात्कृष्णो वः ॥ रो मृगी ॥२॥
सा मृगीलोचना । राधिका श्रीपतेः ।।
(४) प्रतिष्ठा । (चतुरक्षरा वृत्तिः।) ग्मौ चेत्कन्या ॥१॥
भास्वत्कन्या सैका धन्या । यस्याः कूले कृष्णोऽखेलत् ॥