________________
प्रथमः स्तबकः ।
११५
अत्र प्रशब्दे परे गुरोर्लघुत्वम् । प्राप्य नाभिह्रदमजनमाशु
प्रस्थितं निवसनग्रहणाय॥ औपनीविकमरुन्ध किल स्त्री
वल्लभस्य करमात्मकराभ्याम् ॥ (शि०१०-६०) इति माघे। अत्र हशब्दे परे गुरोर्लघुत्वम्। तीव्रप्रयत्नोचारणेनात्र लघुत्वमिति कण्ठाभरणः तदुक्तम्
यदा तीवप्रयत्नेन संयोगादेरौरवम् ॥ न च्छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः॥ (सर०१-१२३) . यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते ॥ सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ।। क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः
पदान्ते सा शोभा व्रजति पदमध्ये त्यजति च ॥ पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां
यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया । अयं च श्लोकश्छन्दोगोविन्दे मम गुरोः
श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् ॥
इत्याह भट्टः स्वग्रन्थे गुरुमें पुरुषोत्तमः॥ अत एव मुरारिःसन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डली
लीलालूनपुनर्विरूढशिरसो वीरस्य लिप्सोर्वरम् । यादन्यपराश्चि यस्य कलहायन्ते मिथस्त्वं वृणु
त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्यताम् ॥ इति । जयदेवोऽपिसाध्वी माध्वीक! चिन्ता न भवति भवतः शर्करे! कर्कराऽसि
द्राक्षे ! द्रक्ष्यन्ति के त्वाममृत! मृतमसि क्षोर ! नीरं रसस्ते ।। माकन्द ! क्रन्द कान्ताधर ! धर न तुलां गच्छ यच्छन्ति यावद्भावं
शृङ्गारसारस्वतमिव जयदेवस्य विष्वग्वचांसि ॥ (गी०१२-१२) एवमन्येऽपिकत्यद्रिप्रतिरोधिताः कति नदीपाथोनिधिप्लाविताः
कत्येवाटवितां गताः कति न वा भूदेवदेवैर्वृताः॥ भूम्यो भूमिपतीन्द्र ! तावकयशःप्रस्तावनामण्डली
कोष्ठीकृत्य जगद्धनं कति वराटीभिर्मुदं यास्यति ॥ इति ।