SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रुतबोधः। सपञ्चदशमान्तिमं तदनु यत्र कान्ते ! यति ___गिरीन्द्रफणिभृत्कुलैर्भवति सुभ्र ! पृथ्वी हि सा ॥४०॥ चत्वारः प्राक्सुतनु ! गुरवो द्वादशैकादशौ चे न्मुग्धे ! वर्णौ तदनु कुमुदामोदिनि ! द्वादशान्त्यौ । तद्वच्चान्त्यो युगरसहयैर्यत्र कान्ते ! विरामो ___ मन्दाक्रान्तां प्रवरकवयस्तन्वि ! तां सङ्गिरन्ते ॥४१॥ आद्यं यत्र गुरु त्रयं प्रियतमे ! षष्ठं ततश्चाष्टमं सन्त्येकादशतस्त्रयस्तदनु चेदष्टादशाद्यान्तिमाः ॥ मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने ! तद्वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् ॥४२॥ चत्वारो यत्र वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि द्वौ तद्वत्षोडशाद्यौ मृगमदतिलके ! षोडशान्त्यौ तथान्त्यौ। रम्भास्तम्भोरुकान्ते ! मुनिमुनिमुनिभिदृश्यते चेद्विरामो बाले! वन्द्यैः कवीन्द्रैः सुतनु ! निगदिता स्रग्धरा सा प्रसिद्धा ॥४३॥ इति श्रीकालिदासविरचितः श्रुतबोधः सम्पूर्णः ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy