SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 11 77: 11 गङ्गादासप्रणीता | छन्दोमञ्जरी । प्रथमः स्तबकः । देवं प्रणम्य गोपालं वैद्यगोपालदासजः। सन्तोषातनयश्छन्दो गङ्गादासस्तनोत्यदः ॥ १ ॥ सन्ति यद्यपि भूयांसश्छन्दोग्रन्था मनीषिणाम् || तथापि सारमाकृष्य नवकार्थो ममोद्यमः ॥ २ ॥ इयमच्युतलीलाढ्या सद्वृत्ता जातिशालिनी ॥ छन्दसां मञ्जरी कान्ता सभ्यकण्ठे लगिष्यति ॥ ३ ॥ पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत् ॥ ४ ॥ सममर्धसमं वृत्तं विषमं चेति तत्रिधा ॥ समं समचतुष्पादं भवत्यर्धसमं पुनः ॥ ५ ॥ आदिस्तृतीयवद्यस्य पादस्तुर्यो द्वितीयवत् ॥ भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम् ॥ ६ ॥ म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः ॥ समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमित्र विष्णुना ॥ ७ ॥ मस्त्रिगुरुखिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः ॥ जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥८॥ गुरुरेको गकारस्तु लकारो लघुरेककः ॥ क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा ॥ ६॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy