________________
.
श्रुतबोधः। यस्यां प्रिये ! प्रथमकमक्षरद्वयं .. .. तुर्य तथा गुरु नवमं दशान्तिमम् ॥ सान्त्यं भवेद्यतिरपि चेयुगग्रहैः ....
... सालक्ष्यताममृतलते ! प्रभावती ॥ ३४ ॥ आद्यं चेत्रितयमथाष्टमं नवान्त्यं
- द्वावन्त्यौ गुरुविरता सुभाषिते ! स्यात् ।। विश्रामो भवति महेशनेत्रदिग्भि
विज्ञेया ननु सुदति ! प्रहर्षिणी सा ॥ ३५ ॥ आद्यं द्वितीयमपि चेद् गुरु तच्चतुर्थ
यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम् ॥ अष्टाभिरिन्दुवदने ! विरतिश्च षभिः . ..
कान्ते ! वसन्ततिलकां किल तां वदन्ति ॥ ३६ ॥ प्रथममगुरुषट्कं विद्यते यत्र कान्ते !
तदनु च दशमं चेदक्षरं द्वादशान्त्यम् ॥ करिभिरथ तुरङ्गैर्यत्र कान्ते ! विरामः
- सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥ ३७ ॥ सुमुखि ! लघवः पञ्च प्राच्यास्ततो दशमान्तिकं
तदनु ललितालापे ! वर्णौ तृतीयचतुर्थको । प्रभवति पुनर्योपान्त्यः स्फुरत्कनकप्रभे !
___ यतिरपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥३८॥ यदि प्राच्यो हस्वः कमलनयने ! पञ्च गुरव
स्ततो वर्णाः पञ्च प्रकृतिसुकुमाराङ्गि ! लघवः ॥ . त्रयोऽन्ये चोपान्त्याः सुतनु ! जघनाभोगसुभगे !
सरु यस्यां भवति विरतिः सा शिखरिणी ॥३९॥ द्वितीयमलिकुन्तले ! गुरु षडष्टमद्वादशं
चतुर्दशमथ प्रिये ! गुरु गभीरनाभिहदे !॥