SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । ૭૨ श्रव्यवहितो केन्द्रवज्रोपेन्द्रवज्रालक्षणवन्तौ पादौ यत्सम्बन्धिनौ ता उपजातयो नाम । अत्र पूर्वोक्तलक्षणेन पादद्वयेन यथायोगमेकद्विवारावृत्या निष्पत्तिर्विवक्षिता, न तु द्वाम्यामेव वृत्तपूर्तिः । पादद्वयमात्रघटितस्य वृत्तस्याभावात् । द्विवचनं लक्षणद्वययोगेन लक्षणया नेयम् । ताश्वतुरक्षरप्रस्तारवत्प्रस्तारे सत्याद्यन्तभेदयोः केवलेन्द्रवज्रोपेन्द्रवज्रात्यागे चतुर्दश भवन्ति । यथा - उइइइ १ इउइइ २ उउइइ ३ इइउह ४ उइउह ५ इउउइ ६ उउउइ ७ इइइउ = उइइउ ६ इउइउ १० उउउ ११ / इइउउ १२ उउउ १३ इउउउ १४ इति । तथा च वृद्धाः एकत्र पादे चरणद्वये वा पादत्रये वान्यतरः स्थितश्चेत् । तयोरिहान्यत्र तदोहनीयाश्चतुर्दशोक्ता उपजातिभेदाः ॥ इति । तत्राद्यभेदोदाहरणम् – दैत्याधिपप्राणमुषां नखानामुपेयुषां भूषणतां क्षतेन । १४ बु.. प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवत्रुरेनम् ॥ (शि०३-१४) (१) दीपाः स्थितं वस्तु विभावयन्ति उ. उ कुलप्रदीपास्तु भवन्ति केचित् ॥ चिरव्यतीतानपि पूर्वजान्ये प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ उ. उपरि एते चतुर्दशोपजातिभेदा इन्द्रवज्रोपेन्द्रवज्रासम्भवाः प्रदर्शिताः । जगद्गुरुनारायणभट्टपादैरुपजातिभेदानामाद्यमुदाहरणं यत्प्रदशितं तत्र एकैकलघुहासक्रमः । मत्प्रदर्शितेषूदाहरणेषु च एकैक गुरुहासक्रमः । श्रयमेव क्रमो वहुत्र ग्रन्थेषु समागतस्तत एव मयाऽपि तेनैव क्रमे गोपजातिभेदा दर्शिताः । किंच मूलकृतः “अनन्तरोदीरित" इत्युदाहरणप्रदर्शनेन "पादे सर्व गुरावाद्याल्लघु न्यस्य" ( वृ. र. ६ - २ ) इति प्रस्तारपथप्रदर्शनेन च मत्प्रदर्शितः क्रम एव सामञ्जस्यमावहति । अत्र विषये भट्टपादा अप्यनुकूलाः एव । श्रत एव "पादे सर्वगुरावाद्यात्" ( वृ. र.६-२) इत्यस्य व्याख्यानाऽवसरे यदुक्तं "अत्र मामकः सङ्ग्रहश्लोकः 'पादं सर्वगुरु लिखेन्मुखगुरोश्चाधो लघं पूर्ववत्" इति तत् सङ्गच्छते । "दैत्याऽधिपप्राणमुषां” इत्यस्योपजातिभेदेषु श्राद्यभेदोदाहरणत्वेन प्रदर्शनं तु जगद्गुरूणां स्वातन्त्र्यसूचकमिति मन्तव्यम् । (१) 'दैत्याधिपप्राणमुषां' इत्यत्र "प्राणच्छिदां दैत्यपतेः” इति पाठो
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy