________________
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
५३
हे हर, मम दुरितं हर । अथ च अतुलमभयवरं हसित्वा वितर । येनाहं कृतकृत्यो भवेयमिति भावः । अत्र प्रतिचरणं चतुर्विंशतिः कलाः संभूय षण्णवत्यो मात्रा: ९६ ज्ञातव्याः । विरतिरेकादशे त्रयोदशे च । सर्वलघुकं शक्रनामकं छन्दः ॥
पुनः सौकर्यार्थ सावधिकं भेदमाह
जह जह वलआ वट्ठिहइ तह तह णाम कुणेहु | संभु हिउँ भण भिंगगण चउआलीस मणेहु ॥ ९० ॥
[ यथा यथा वलया वर्धन्ते तथा तथा नामानि कुरु ।
शंभुमारभ्य भण भृङ्गगणं चतुश्चत्वारिंशतं जानीहि ॥ ]
यथा यथा वलयो गुरुर्वर्धते तथा तथा नामानि भेदान्कुरु । शंभुमारभ्य गणभृङ्गमवधीकृत्य गणय । चतुश्चत्वारिंशन्नामानि जानीहि । दोहा छन्दः ॥
नामान्येवाह - जहा (यथा ) -
ता सको संभो सूरो गंडो खंधो विजओ दप्पो,
तालको समरो सीहो सेसो उत्तेओ पेंडिवक्खो | परिधम्म मरालु मइंदो दंडो मकलु मणु मरहठ्ठो, वासंतो कंठो मोरो बंधो भमरो भिण्ण मरहठ्ठो ॥ ९१ ॥ बलहद्दो राओ बलिओ रामो मंथाणो बलि मोहो,
सहसरको बालो दरिओ सरहो दंभोऽहो उद्दंभो । वलिको तुरओ हरिणो अंधो मुद्धीए तह भिंगो,
वत्थूआणामो पिंगलणाओ जंपइ छंदपबंधो ॥ ९२ ॥ [ तानि शक्रः शंभुः सूरो गण्डः स्कन्धो विजयो दर्पः
तालाङ्कः समरः सिंहः शेष उत्तेजाः प्रतिपक्षः । परधर्मो मरालो मृगेन्द्रो दण्डो मर्कटो मदनो महाराष्ट्र:
वसन्तः कण्ठो मयूरो बन्धो भ्रमरो भिन्नो महाराष्ट्र: ॥ बलभद्रो राजा वलितो रामो मन्थानो बली मोहः
सहस्राक्षो बालो दृप्तः शरभो दम्भोऽह उद्दम्भः ।
१. ‘सीसो’ रवि०. २. ‘फणिरक्खो' रवि ० . ३. 'आणूवड्डो' इति रविकरः, 'अनुबन्ध:' इति तच्छाया. ४. 'हारो हरिणो अंधो मुद्धी भिंगो' रवि ०.