________________
१ परिच्छेदः)
प्राकृतपिङ्गलसूत्रम् ।
अथ तेषां ससंख्यं भेदमाह- .
टगणो तेरहभेओ भेआ अट्ठाइँ होन्ति ठगणस्स । डगणस्स पञ्च भेआ तिअ ढगणे वे वि णगणस्स ॥ ९॥ [टगणस्त्रयोदशभेदो भेदा अष्टौ भवन्ति ठगणस्य ।
डगणस्य पञ्च भेदास्त्रयो ढगणे द्वावपि णगणस्य ॥] टगणः षट्कलस्त्रयोदशभेदः । ठगणः पञ्चकलोऽष्टभेदः । डगणश्चतुष्कलः पञ्चभेदः । ढगणस्त्रिकलस्त्रिभेदः । णगणो द्विकलो द्विभेदः । गाथा छन्दः ॥ मात्राप्रस्तारप्रकारमाह
पढमगुरुहे?ठाणे लहुआ परिठवहु अप्पबुद्धीए । सरिसा सरिसा पन्ती उव्वरिआ गुरुलहू देहु ॥ १०॥ [प्रथमगुरोरधःस्थाने लघु परिस्थापयतात्मबुद्ध्या ।
सदृशी सदृशी पतिरुवरिते गुरुलघू दैत्थ ॥ आत्मबुद्ध्या । अल्पबुद्धयः शिष्या वा । सदृशी सदृशी पतिः । कर्तव्येति शेषः । उर्वरिते गुरुं लघु च दत्थ । आदौ सर्वे गुरवो लेख्याः । गुर्वधःस्थितकलातः प्राग् लघुना कलापूरणं चेद्भवति तदा लघुरेव देयः । नो चेद्गुरुं दत्त्वा अपेक्षितश्चेत्तदा लघुर्देयो यावत्कलापूरणम् । वाणीभूषणेऽप्युक्तम्-'प्रथमगुरोरधरे लघु दत्त्वा शेषं समानमितरेण । उद्वृत्ते गुरु लघु वा प्रस्तारः सर्वलघु यावत् ॥' अभियुक्तैरप्युक्तम्-'गुरोरधस्तादाद्यस्य लघु न्यस्योर्ववत्पुनः । पश्चादूने गुरुं न्यस्येल्लघु वापेक्षितं क्रमात् ॥ यावत्सर्वलघुस्तावन्मात्राप्रस्तारके बुधः ।' वर्णवृत्ते तूद्वत्तस्थले गुरुरेव देय इति नियमः । तदुक्तं वृत्तरलाकरे-'पादे सर्वगुरावाद्याल्लघु न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ उने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥ इति । गाथा छन्दः ॥ अथ षट्कलप्रस्तारे त्रयोदशगणानां नामान्याह
हरससिसूरो सको सेसो अहिकमलबम्भकॅलिचन्दो । धुअधम्मो सालिअरो तेरह भेओ छमत्ताणम् ॥ ११ ॥
हरः शशी सूरः शक्रः शेषोऽहिः कमलं ब्रह्मा कलिश्चन्द्रः ।
ध्रुवो धर्मः शालिकरस्त्रयोदशभेदाः षण्मात्राणाम् ॥] १. 'परिस्थापय' रवि०. २. 'उद्वृत्ते' रवि०. ३. 'देहि' रवि०. ४. 'किणिअन्धो' रवि०. ५. 'मत्ताई' रवि०. ६. 'शूरः' रवि०. ७. 'किणिबन्ध' इत्येकं नाम रविकरमते. ८. 'शाली चरः' इति नामद्वयं रविकरमते.