________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
. १७९ [चलन्ति योधाः शत्रुक्षोभाः रणकर्माग्रेसराः
कृपाणबाणशल्यभल्लचापचक्रमुद्गराः । पर्वतघोटमारधारासनवल्गपण्डिताः
दन्तदष्टप्रकृष्टोष्ठया तया सेनया मण्डिताः ॥] कश्चिद्वन्दी सङ्ग्रामाङ्गणमनुवर्णयति-योधाः सुभटाश्वलन्ति समरभूमावितस्ततः संचरन्ति । कीदृशाः । शत्रूणामहितानां क्षोभकाः । पुनः रणकर्माग्रेसराः, रणकर्मण्य. धिका वा । ततश्च कृपाणबाणशल्यभल्लचापचक्रमुद्राश्चायुधविशेषाश्चलन्तीत्यनेनैवान्वयः। . पुनः कीदृशाः भटाः । पर्वताकारतुरगैर्मारणार्थ यो धारः समन्ताद्वर्तुलीभूय धावनं तत्रासनवल्गासु पण्डिता अतिदक्षाः सादिन इत्यर्थः । पुनः प्राकृते पूर्वनिपातानियमात दन्तदष्टप्रकृष्टोष्ठया तया सेनया ध्वजिन्या मण्डिताः ॥ यथा वाणीभूषणे]-'निशुम्भशुम्भचण्डमुण्डरक्तबीजघातिनी लुलायरूपदैत्यभूतघातपक्षपातिनी । नवीनपीनबद्धजालकालमेघसंनिभा चिरं चरीकरोतु नः प्रियं पिनाकिवल्लभा ॥' उवणिका यथा-15), SIS, Is), SIS, Is), 5, १६४४६४ ॥ नराचो निवृत्तः ॥ अथ नीलच्छन्दःणीलसरूअ विआणहु मत्तह बाइसही
पञ्च भगण्ण पणा पड आसिअ एरिसही। अन्त ठिआ जहिं हार मुणिज्जइ हे रमणी
बावणअग्गल तिण्णि सआ धुअ रूअ मुणी ॥ २०४ ॥ [नीलस्वरूपं विजानीहि मात्रा द्वाविंशतिः
पञ्च भगणाः पदे पतन्ति आश्रित ईदृशैः । अन्ते स्थितो यत्र हारो ज्ञायते हे रमणि
द्विपञ्चाशदधिकानि त्रीणि शतानि ध्रुवं रूपं ज्ञातव्यम् ॥] हे रमणि, तन्नीलस्वरूपं नीलनामकं छन्दो लक्ष(2) जानीहीत्यर्थः(2) । यत्र पदे द्वाविंशतिर्मात्राः पञ्च भगणा गुर्वादिगणाः पदे पतन्ति, एतादृशैरैव पदैराश्रितमिति छन्दो विशेषणम् । अन्ते पञ्चभगणान्ते स्थितो हारो गुरुयंत्र ज्ञायते तदेतद्विपञ्चाशदधिकं कला. शतत्रयात्मकं ध्रुवं निश्चितमीदृशं रूपं मुणी ज्ञातव्यमित्यर्थः । एतदुक्तं भवति-चरणस्थि. तद्वाविंशतिमात्रात्मकमिदं नीलाख्यं वृत्तं चतुश्छन्दोभिप्रायेण षोडशचरणात्मकम् । तत्रै. कस्य छन्दसश्चरणो द्वाविंशतिश्चतुर्गुणितोऽष्टाशीतिकलात्मकः । यथा-२२+२२+२२+ २२८८॥ एवमष्टाशीतिकलात्मकचरणचतुष्टयेन द्विसमधिकपञ्चाशदुत्तरकलाशतत्रयात्मकमिदं नीलस्वरूपं भवतीति । यथा-८८+८८+८८+८८=३५२॥ वाणीभूषणे तु प्र. कारान्तरेण लक्षणं लक्षितम्-'तालपयोधरनायकतोमररत्नधरं पाणियुतं च विभावय भा