________________
२७७
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । मलयमरुता रचितलास्यमालोकय- .
न्व्रजयुवतिभिर्विहरति स्म मुग्धो हरिः ॥' उद्दवणिका यथा-॥ ॥s,m, sis, sis, १५४४६० ॥ विपिनतिलकं निवृत्तम् ॥
अथ चन्द्रलेखा छन्दः
म्रौ मो यौ चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखा ॥ २००॥ ___ यदि प्रथमं म्रौ मगणरगणौ भवतः, ततो मो मगणः, ततश्च यौ यगणो भवेतां सप्ताष्टकैवर्णविरतिश्च भवेत्, तदा चन्द्रलेखा तन्नामकं वृत्तमित्यर्थः ॥ यथा'विच्छेदे ते मुरारे पाण्डुप्रकाशा कृशाङ्गी
म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा । राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखा • किंचार्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥'
उद्यवणिका यथा-sss, sis, sss, Iss, Iss, १५४४-६० ॥ चन्द्रलेखा निवृत्ता॥
अथ चित्रं छन्दःचित्रानाम छन्दश्चित्रं चेत्रयो मा यकारौ ॥ २०१॥
तच्चित्रानामकं चित्रं नाम यस्य यत्र त्रयो मा मगणत्रयं यकारौ यगणद्वयं च यत्र • भवेत्तत्कथितनामद्वयं छन्दो भवतीति ॥
यथा'गोपालीलीलालोला यद्वत्कलिन्दात्मजान्ते
खेलन्मुक्ताहारारण्यस्रग्लसन्मूर्धचित्रा । कंसारातेर्मूर्तिस्तद्वन्मे हृदि क्रीडन्तीयं
___ कोऽन्यः स्वर्गो मोक्षो वा स्याद्विद्यते तन्न जाने ॥ उध्वणिका यथा-sss, sss, sss, iss, Iss, १५४४-६० ॥ अत्रापि प्रस्तार. गत्या पञ्चदशाक्षरस्य द्वात्रिंशत्सहस्राणि सप्तशतान्यष्टषष्टयुत्तराणि ३२७६८ भेदाः। तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदास्तीक्ष्णशेमुषीकैराकरान्निजबुद्ध्या वा प्रस्तार्य सूचनीया इत्युपरम्यते ॥ अथ षोडशाक्षरप्रस्तारे नाराचछन्दोऽभिधीयतेणरेन्द जत्थ सव्वलो सुपण्ण वेवि दीसए
पइक ठामपञ्चमे कला चतूरुवीसए । २३