________________
षष्ठरत्ने प्रथममरीचिः ।
षष्ठं रत्नम् । इदानीं कविसम्प्रदायस्य सर्वापेक्षयाभ्यर्हितत्वं दर्श
यन्नाह—'
असतोऽपि निबन्धेन सतामप्यनिबन्धनात् ॥ नियमस्य पुरस्कारात् सम्प्रदायस्त्रिधा कवेः ॥ १ ॥ असतोऽपीति । वस्तुगत्या यन्न भवति तदपि कविभिर्निबध्यते । यथा -
रत्नानि यत्र तत्राद्रौ हंसाद्यल्पजलाशये । जलेभाद्यं नभोनद्यामम्भोजायं नदेष्वपि ॥ तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेद्यता । शुक्लत्वं कीर्तिपुण्यादौ का चाकीर्त्यघादिषु ॥ प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः । ज्योत्स्नापानं चकोराणां प्रवालं सर्ववीरुधाम् (१)॥ केसराशोकयोः सत्खीगण्डूषात् पादघाततः । मासान्तरेऽपि पुष्पाणि रोमालिखिवलिः खियाम् ॥ सतामपीति । पारमार्थिकमपि न निवद्ध्यते । यथा
वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने । कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तता ॥ नारीणां श्यामता पातः स्तनयोर्यच्च (२) वा हिये । नियमस्येति ।
हिमवत्येव भूर्जत्वक् चन्दनं मलये परम् । - हेमन्त शिशिरों त्यक्त्वा सर्वदा कमलस्थितिः ॥
५९
(१) शैवालं सर्ववारिषु - इति खपु० पाठः । ( २ ) नम्रता तथा - इति कपुस्तके |