________________
५४
अलङ्कारशेखरे
यथा--
था
अवन्तिनाथोऽयमुदग्रबाहुर्विशालत्रक्षास्तनुत्तमध्यः।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ . इत्यादि । उन्नतता पदे ॥२॥ यथाकूर्माकारं चरणयुगलं धृतदिग्दन्तिशुण्डा
दण्डावूरू भुजयुगमपि व्यक्तनागेन्द्रशोभम् । प्रायः पृथ्वीधरणविधये तत्समर्थान् पदार्था
नेकीकृत्य त्रिभुवनसृजा निर्मिता यस्य मूर्तिः ॥ स्तनयोरिव नारीणामत्यन्तस्वच्छता हृदि । यथासा निर्मले तस्य मधुकमाला हृदि स्थिता च प्रतिबिम्बिता च । कियसमना कियती च ममा पश्चेषुवाणालिरिव व्यलोक ।। नारीस्तनस्वच्छता यथा• प्रतिफलितं गलगरलं कज्जलबुद्ध्या पयोधरे देव्याः ।
प्रातः प्रोञ्छितुमिच्छन् गिरिजाहसितो हरो जयति ॥ कान्तिप्रयोजकं यावत् तावत्तत्प्रवर्यते ॥३॥ तद्वघोषित् । यथा
कृतावरोहस्य हयादुपानही ततः पदे रेजतुरस्य बिभ्रती। तयोः प्रवालैनयोस्तथाम्बुजैनियोद्धकामे किमु बद्धवर्मणी॥
धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः।। प्रकृसैव शिलोरस्कः सुव्यक्तो हिमवानिव ॥