________________
पञ्चमरत्ने द्वितीयमरीचिः।
चन्द्रानन ! चन्द्रदिनं मृगलोचन ! मृगशिरश्च नक्षत्रम् । तिथिरतिथिप्रिय ! नवमी शुभयोगः सुभग! भाति भवान्(१)। __ कामं कमलपत्राणां नेत्रे तस्यानुकारिणी।
इत्यादि विस्तृतमन्यत्र । इदमुपलक्षणम् । आहादकत्वपुरस्कारेण चन्द्रादिसाम्यमुभयोरपि । यथा-'इत्थं द्विजेन द्विजराजका. न्ति'रित्यादि 'इन्दुप्रभामिन्दुमती बभाष' इति रघुवंशे, 'स्फुरकमलप्रभे' इति श्रुतबोधे । प्रतापोऽर्काग्नि(२)वज्राद्यैः कीर्तिश्चन्द्रादिशुभ्रकैः ।। करे पोर्ध्वरेखादि पदे छत्रध्वजादिकम् ॥ ४॥ गमनं हस्तिसिंहाभ्यां कार्कश्यं च भुजादिषु ॥ स्फुटमिहोदाहणम् । गमनं यथा--
पूर्व यथा देवपतेर्नियोगं मूर्धा वहन्कार्मुकवाणहस्तः ।
प्राप्तस्तथैवाशु गजेन्द्रगामी प्रोद्भिद्यमानो नवयौवनेन ॥ 'ततो मृगेन्द्रस्य मृगेन्द्रगामी'त्यादि । . स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुअराः ।
सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥ आदिपदादृषभोऽपि । कर्तव्या रत्नसिंहाद्या नरराजादितः पदात् । विशेष्य भावो ासदां नरभूमि(३)विशेषणात् ।। यद्यत्सामुद्रिकायुक्तं तद्वर्ण्यमुभयोरपि । किन्तु शिष्टप्रयोगोऽत्र नियामकतयेष्यते(४) ॥ इत्यलङ्कारशेखरे वर्णकरत्ने पुरुषवर्णनमरीचिः। (१) इदमुत्तरार्ध क, गपुस्तकयो स्ति। (२) प्रतापोऽग्न्यादि-इति कपुः पाठः । (३) वरभूमि-इति खपुस्तके पाठः। (४) मया कल्पतयेष्यते-इति कपु० पाठः।