________________
अलङ्कारशेखरेचरण पल्लवाम्भोजस्थलपद्मप्रवालकैः ।।
यथाविजितप्रवालपल्लवकवलीकृतमोल्लसत्सुषमे । पदकमले कमलाया लुठदलकः पातु देवकीसूनुः ।। अभ्युन्नताङ्गुष्ठनखप्रभाभिर्विक्षेपणाद्रागमिवोदिरन्तौ ।
आजहतुस्तचरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ।। पूर्णेन्दुनाङ्गुष्ठनखौ यथायशः पदाङ्गुष्ठनखी मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या। कलाचतुःषष्टिरुपैतु वासं तस्यां कथं सुभ्रुवि नाम नाऽस्याम् ।। गमनं हंसहस्तिवत् ॥१६॥
यथा-'गमनमलस यात रित्यादि । सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाश्चितविभ्रमंषु । व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नू पुरशिञ्जितानि ।।
इत्यादौ । कटाक्षो यमुनाबीचिभृङ्गावलिविषामृतः ॥ यथाहालाहलं वा विलसत्सुधा वा भृङ्गावली वा यमुनोर्मयो वा । निशाणघृष्टा मदनेषवो वा यद्वा कटाक्षा हरिणेक्षणायाः ॥
ज्योत्स्नेन्दुपुष्पपीयूषफेन कैरववद्धसः ॥ १७॥ हसो हास्यम् । यथा-'ज्योत्स्नेन्दुपुष्पपीयूष' इत्यादि । .. नूनं ते चोरिता तान्न ! स्मितेक्षणमुखद्युतिः ।
स्नातुमम्भः प्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥