________________
पञ्चमरत्ने प्रथममरीचिः ।
यथामुक्तावलिस्ते रदनाः पृष्ठं काञ्चनपट्टकम् । नखांशवस्ते रत्नानि मध्ये क्षीणासि किं प्रिये !॥ सूच्यग्रतलशून्याऽणुवेदीसिंहादिभिः समः॥ मुष्टिग्राह्यो भवेन्मध्यः
अत्र मध्यस्याऽतिसूक्ष्मतया तत्प्राधान्येनोपमानता । अत एव मुष्टिग्राह्यता तलप्रमाणता सूक्ष्मत्वादेव मध्ये शून्यता च । अत एव 'सदसत्संशयगोचरोदरी'त्यपि वर्णयन्ति । . जघनं पुलिनोपमम् ॥ १४ ॥ यथा-'मदनसरितमेता'मित्यादि । पीठप्रस्तरभूचनितम्बः परिवर्पते ॥ यथानितम्बः स्वर्णपीठं ते तवाङ्गुल्यश्च पल्लवाः । ज्योत्स्नेन्दुपुष्पपीयूषफेनकान्ति स्मितं तव ॥
'तपनीयशिलाशोभा कटि'रित्यादि । 'नितम्बस्तव मे. दिनी'त्यादि। चक्रेण विश्व युधि पुष्पकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन । जगजिगीषत्यमुना नितम्बमयेन किं दुर्लभदर्शनेन । विभ्रम्य तच्चारुनितम्बचक्रे दूतस्य दृक् तस्य खलु स्खलन्ती । स्थिरा चिरादास्त तदूसरम्भास्तम्भावुपाश्लिष्य करेण गाढम् ॥
इति नैषधात् , 'रथचरणविशालश्रोणिलोलेक्षणेने ति माघाच्च चक्रान्तरद्वयसाम्यमप्यत्र । जरुस्तु करिहस्तेन कदल्या करभेण च ॥ १५ ॥ यथाकदली कदली करभः करमः करिराजकरः करिराजकरः। भुवनत्रितयेऽपि विभर्ति तुलामिदमूरुयुगं न चमूरदृशः ॥