________________
अलङ्कारशेखरेयथाबन्धुकातिबान्धवोऽयमधरः स्निधो मधुकच्छवि-'
गण्डश्चण्डि ! चकास्ति नीलनलिनश्रीमोचनं लोचनम् । नासाऽन्वेति तिलप्रसूनपदवीं कुन्दाभदन्ति ! प्रिये!
प्रायस्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ कामतूणीकृत्य नासा वर्ण्यते इति श्रीहर्षः(१) । 'नासा. वंशो मृगीदृशाम्' इत्यप्यस्ति । 'नासानाली तिलोपमा' इत्यपि पठन्ति । कण्ठः कम्बोः समः स्मृतः ॥
यथा'हे कम्बुकण्ठि' इत्यादौ, 'कम्बुग्रीवे ! तद्वदेवाष्टमान्त्ये' इत्यादौ च। मृगतन्नेत्रपाथोजतत्पत्रझपखञ्जनैः ॥ ६॥ नेत्रं चकोरतन्नेत्रकेतकालिस्मराशुगैः॥ यथा
चकोरनेत्रणहगुत्पलानां निमेषयन्त्रेण किमेष कुष्टः । ___ सारः मुधोद्गारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः ॥ 'हरिणादथ तन्नयनादथ पद्मात्पद्मपत्राच्चे'त्यादि । 'किमब्जे कि मीना वित्यादि !
नयने खञ्जनकमले बाहू विलसन्मृणालबिसखण्डे । वपुरपि शिरीषपुष्पं मुखमिन्दुस्वं शरल्लक्ष्मीः ॥ चकार सा मत्तचकोरनेत्रा विलोलनेत्रभ्रमरैर्गवाक्षान् । पूर्णान् दलैः काचन केतकीनामहो ! वधूनां पृथगेव दृष्टिः । (२)नासाऽदसीया तिलपुष्पतूणं जगत्त्रयव्यस्तशरत्रयस्य । - श्वासानिलामोदभरानुमेयां दधतिबाणी कुसुमायुधस्य ।। एतत्पद्याभिप्रायेणोक्तमिदम्।
-
-