________________
पञ्चमरत्ने प्रथममरी।। ललाटमर्ध चन्द्रेण हेमपट्टिकया तथा ॥४॥
यथाकेशान्धकारादथ दृश्यमालस्थलार्धचन्द्रा स्फुटमष्टमीयम् । एनां यदासाय जगजयाय मनोभुवा मिद्धिरसाधि साधु ।।
अधस्तादन्धकाराणामुपरिष्टाकुरङ्गयोः ।
सिन्दुरबिन्दुसुभगा दृष्टा कनकपट्टिका ॥ बल्लीस्मरधनुर्वाचिभृङ्गालीपल्लवैर्भुवौ ॥ यथा-'अथ मुललितयोषिद्धूलताचारुशृङ्गमित्यादि। ३यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातान्
वक्रच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासान् हन्तकस्मिन्कचिदपि न ते चण्डि ! सादृश्यमस्ति ।। भ्रूपल्लवं मधुपराजिरुचां निधिस्ते
गण्डस्थली कनकदर्पणदर्पहन्त्री। हे कम्बुकण्ठि ! शुककिन्नरहंसवाणि !
प्राणा ममासि मदनस्य च जैत्रमस्त्रम् ॥ चन्द्राऽऽदशौं कपोलस्य
मुव्यक्तमव्यवहितश्लोकद्वये । 'पाणी पद्मधिया मधूककुमु. भभ्रान्त्या पुनर्गण्डयो रित्यादिदर्शनात्तथात्वमपि वर्णते(?)। मुखस्येन्द्रब्जदर्पणाः ॥ यथा 'किमिन्दुः किं पनं किमु मुकुरबिम्बं किमु मुख'मित्यादौ । तिलप्रसूनं नासायाः (१)इदमुपलक्षणम्,. 'पाणी"गण्डयो रित्यादेस्तथात्वमपि
इति खपु० पाठः।