________________
अलङ्कारशेखरे
न पिच्छं तत्केकिन्युचितमसितोऽयं नच मणि. .
मृदुत्वादा ! ज्ञातं घनचिकुरपाशा मृगदृशः ॥ . जानामि जानकि ! कलिन्दसुताजलेऽस्मिन्
नातासि हन्त ! यदिमास्तव कुन्तलानाम् । वीचीषु नीलकमलस्रजि शैवलेषु . दृश्यन्त एव रुचयः कणशः प्रकीर्णाः ॥ .. तारा रदाना, वदनस्य चन्द्र, रुचा कचानां च नमो जयन्तीम् । आकण्ठमक्ष्णोतियं मधूनि महीभुजः कस्य न भोजयन्तीम्(१)॥ कूपसिन स्थगितहृदया सम्पुटं हाटकीयं
मस्तन्यस्ताचलनिवसना चामरं वारिदाभम् । . यत्राऽऽसीना रतिरिव वणिक्प्रेयसी वीथिकायां..
विक्रीणीते मुकुलितमुखी संज्ञया मौक्तिकानि ॥ अङ्गुल्या यदि निर्दिशेदरुणिमा लाक्षागुटीविभ्रमं
वाचा यद्यथ शुद्धपारदवटीबुद्धिं रदस्य द्युतिः । हरभजया यदि नीलिमा वितनुते काचस्रजः प्रत्ययं
विक्रेतुंबत ! मौक्तिकानि भवति व्यग्रा वणिक्प्रेयसी (२)। - इदमप्युपलक्षणम् । पुनः पुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसङ्ग्रहम् । सखोस्मितस्तर्किततन्निजभ्रमा बबन्ध तन्मूर्धनि(३) चामरं चिरात् ।।
इति धूमसाम्यमपि बोध्यम् । __'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' . ) इति रहस्यम् । (१) स्वयंवरे इत्थंभूतां विमानस्थांदमयन्ती राजाना दहशुः
' इति वाक्यार्थः। (२) श्लोकोऽयं ख,गपुस्तकयोनास्ति । (३) तन्मूर्धज-इति कपु० पाठः।।