________________
२८
अलङ्कारशेखरेदिभेदादनन्तम् । अत्र पूर्वापरवाक्यार्थयोरुपकार्योपकारक(१). शृङ्खला-मालादीपकम् । तत्रोत्तरस्य पूर्वोपकारकत्वं यथा
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदस्तमपि वल्लभसङ्गः ।। पूर्वस्योचरोपकारत्वं यथासङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते(२)
देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः, शरैररिशिरस्तेनापि भूमण्डलं,
तेन त्वं, भवता च कीर्तिरतुला, कीर्या च लोकत्रयम् ॥ समानकालोक्तिः-सहोक्तिः । सा द्वयी। उदासीनयोस्त्वरामतियत्तये, कार्यकारणयोरपि । आधा यथा--
सह दीघों मम श्वासैरिमाः सम्प्रति रात्रयः।
समं मम शरीरेण क्षीयन्ते दिवसा अमी ॥ अन्त्या यथा--
वर्धते सह पान्थानां मूर्छया चूतमअरी ।
पतन्ति च समं तेषामश्रुभिर्मलयांनिलाः ।। प्रयोज्यप्रयोजकयोवैयधिकरण्यम्-अन्यदेशत्वम् । यथा-- सा बाला. वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ कारणे सत्यपि कार्याभावो-विशेषोक्तिः । यथा--
आवाति वारिधरशीकरवारिवर्षी
स्वैरं कदम्बवनदुर्ललितः समीरः । (१) पकारकम्-इति क,गपु० पाठः । (२) समासादिते-इति क,खपुस्तकयोः पाठः ।