SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चतुर्थरने चतुर्थमरीचिः ३९ - अङ्गेऽर्पितानि नलिनीनवपल्लवानि . तापस्तथापि सुदृशः शिथिलो न जातः ॥ कारणं विनापि कार्योदयो-विभावना । यथा-- नाङ्गेषु रत्नाभरणानि सन्ति निश्वासहार्याण्यपि नांशुकानि । तथापि सा सम्प्रति सारसाक्षी दिने दिने कामपि कान्तिमेति ॥ केचित्तु-'अन्यदेशत्वमेव विशेषोक्तिविभावने, अधिकरणद्वयमादाय' । अन्ये तु-'अनयोरेवैकेनाऽपरस्यान्यथासिदिः, व्यतिरेकमादाय' इति । गोवर्धनस्त्वाभ्यामेवान्यथासियान्यदेशत्वमेव निराचकार । व्यतिरेकालङ्कारस्त्वतिरिच्यत इत्येके। स च यथा-- कादाचित्की द्युति धत्ते कलडी क्षीयतेऽन्वहम् । दोषाकरः कथङ्कारं त्वदाननसमः प्रिये ! ॥ एकेनापरस्या(२)ऽन्यथासिद्धिराक्षेपः । सोऽपि पृथगित्यपरे। यथा-- इन्द्रेण किं स यदि कर्णनरेन्द्रसूनु रैरावतेन किमसौ यदि तद्विपेन्द्रः । दम्भोलिनाऽप्यलमयं यदि तत्प्रताप: स्वर्गोऽप्ययं ननु मुधा यदि तत्पुरी सा ॥ सुखबोधाय बालानामतिकोमलवर्मना । मया संक्षेपणादित्थमलङ्काराः प्रदर्शिताः ॥ यथैतेषां मिथो भेदः परेषां नातिरेकिता तथाऽलङ्कारसर्वस्वे सप्रपञ्चमदर्शयम् ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे अलङ्काररत्ने अर्थालङ्कारमरीचिः । < ber (१) प्रस्तुतस्यासिद्धि-इति क,खपु० पाठः।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy