________________
अलङ्कारशेखरे
सामरसे सालसता जलमुचि कश्चिद्विपर्यासः ।।
निस्पन्दसा लतायां कथयति कस्यापि पुण्यानि ।। इत्यलङ्कारशेखरे अर्थालङ्कारे रूपकमरीचिः। अन्यनिमित्तके वस्तुन्यन्यानिमित्तकत्वाऽऽरोपणम्-उत्पेक्षा । यथागमनमलसयातः कुम्भलक्ष्मी कुचाभ्या
पविकलकरशोधामूरुकाण्डद्वयेन। यदियमहरदेषां हेतुनाऽनेन नूनं
निजवपुषि करीन्द्राः पांमुपूरं क्षिपन्ति ॥ इयं च
सर्वालङ्कारसर्वस्वं कविकीर्तिविवर्धिनी । उत्प्रेक्षा हरति स्वान्तपचिरोटा स्मितादिव ॥ शङ्के मभ्ये धुवं प्रायो नूनं जानामि तर्कये । इवेयादिभिरुत्प्रेक्षा व्यज्यते काव्यवर्त्मनि ॥ अन्यदभिप्रेत्याऽन्याभिधानम्-समासोक्तिः। सैव चाऽन्यापदेश उच्यते । यथा
त्वं पीयूष ! दिवोऽपि भूषणमसि द्राक्षे ! परीक्षेत को ... माधुर्य तव विश्वतोऽपि विदिता माध्वीक! साध्वी कथा। एतत् किन्तु तथाप्यरुन्तुदमिव बमो न चेत्कुप्यसे ... यः कान्ताधरपल्लवे मधुरिमा नान्यत्र कुत्रापि सः॥ किंचिदपढ्नुत्य यदन्यार्थप्रदर्शनम्-साऽपहनुतिः। यथा
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किमु मिलितो नहि नहि सखि ! हेमनः पवनः।। कलमधुरं किल कूजन् यमुनाकूलेषु नीलघनदेहः । दृष्टः सखि ! गोपालो नहि नहि सखि ! कोकिलो दृष्टः(१)। (१) पद्यमिदं क,गपुस्तकयो!पलभ्यते ।