________________
चतुर्थरने तृतीयमरीचिः ।
विरुद्धं च समस्तं च व्यस्तं रूपकरूपकम् । लिष्टं च रूपकं तस्मात् सङ्क्षेपात्पश्वधा स्मृतम् ॥ १॥ तत्र - यत्रोपमानविरुद्धोऽर्थः - तद्विरुद्धम् । यथादिवा न परिभूयते नच मनागपि क्षीयते
नवा चरमवारिधेः पयसि लुप्तिमाविन्दति । नच त्रिदश वदन कान्तिभिर्जीयते यशस्तुहिनदीधितिर्जयति कोऽपि भूमीपतेः ॥
समस्तं यथा-
तस्या बाहुलता पाणिपद्मं चरणपल्लवम् । मुखेन्दुरक्षिभ्रमरौ सर्वस्वं पुष्पधन्वनः ॥
व्यस्तं यथा
भुजौ मृणाले वदनं सुधांशुः कुन्दानि दन्ताश्चरणौ सरोजे । स्मितं प्रसूनानि करौ प्रबाले पयोधरौ भूमिधरौ मृगाक्ष्याः ॥
रूपकरूपकं यथा
मुखपङ्कजरङ्गेऽस्मिन् भ्रूलतानर्तकी तव । नरीनर्ति लसत्स्वर्ण केतकीदललोचने ॥ श्लिष्टरूपकं यथा -
३५
―
राजहंसोपभोगाईं भ्रमरप्रार्थ्य सौरभम् । पुष्णाति सुषमां कांचिन्मुखपङ्केरुहं तब ||
इदं च समस्ताऽसमस्तादिभेदादनन्तम् । लक्षणाप्यत्रैवान्तर्भवति । उपमानोपमेययोरभेदप्रतिप्रत्तेरत्रापि सच्वात् । तदुक्तम्'रूपकं लक्षणादिक' मिति । सा च द्विधा, समस्ता समस्तभेदात् । तत्राद्या यथा
उदयति कनकाचळयोरुपरि चलत्पङ्कजश्चन्द्रः | तदुपरि घनान्धकारः कस्य कृते धातुरीदृशी सृष्टिः ।
अन्त्या यथा