________________
तृतीयरने द्वितीयमरीचिः ।
!!
सङ्गता अन्तर्भूताः । तदाहु:--
अलङ्काराssश्रिताः कीचेददोषान्तर्गताः परे । चतुर्व्वन्तर्गताः केचिदतश्चत्वार एव ते ॥ तत्र भाविकत्वम् - अभिप्राय पूर्व काभिधानम् । स्वयं दौसमिति यावत् । यथा-दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न बिरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमा लिखन्तु जरठच्छेदा नलग्रन्थयः ॥ अत्रोपपतिं प्रति सङ्केताभिप्रायेणैवमभिधानम् । दारुणेऽर्थे दारुणपदता - सुशब्दता । यथादेवव्रते वाञ्छति दीर्घनिद्रां द्रोणे च कणे च यशोऽवशेषे । लक्ष्मीसहायस्य तवाद्य वत्स ! वात्सल्यवान् द्रौणिरयं सहायः ॥ अत्र मुमूर्खति मृते चेत्यर्थे ईदृक्पदता । येन क्रमेण यद्वस्तु तत्क्रमाभिधानम् - पर्यायोक्तिः । यथा
प्रथममरुणच्छ। यस्तावत्ततः कनकप्रभ
स्तदनु विरहोत्ताम्यत्तन्वी कपोलत लघुतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ यत्र विशेषणद्वारा विशेष्यलाभः - सा सुधर्मिता । यथाअयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनाली बालमन्दारपुष्पम् ।
विरहविधुरको द्वन्द्वबन्धु विभिन्दन् कुपितकपिकपोलकोडताम्रस्तमांसि ॥
अत्र पद्मिनीप्रकाशादीनां सूर्यनियतत्वात्तल्लाभः । इत्यलङ्कार शेखरे गुणरत्नेऽर्थगुणमरीचिः ।
२३.
·