________________
अलङ्कारशेखरे -
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ नवशाद्वले विवलितग्रीवैर्विमुक्ता दृशः ॥ अत्र 'शुभ्रे पल्लविनी 'त्यादिविशेषणानां श्लाध्यता । झटित्यर्थ
२२
प्रत्यायकत्वम् - प्रसादत्वम् । यथा
स विश्वजितमारेभे यज्ञं सर्वस्वदक्षिणम् । आदानं हि त्रिसर्गाय सतां वारिमुचामिव ॥ कौशलादर्थविशेष लाभः- उक्तिः । यथाकुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ।। अत्र कुशलम कुशलं वेत्युत्तरे कर्तव्ये 'जीवती'त्युक्तिविशेषाज्जीवितमात्रशेषता (१) लभ्यते । अन्यधर्माणामन्यत्राऽऽरोपणम्समाधिः । यथा -
-
Calcula
नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः
कुम्भावैभौ कुच परिकरः पूर्वपक्षीचकार । विभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी
द्वक्त्रज्योत्स्ना सितकररुचं (२) दूषयामास तस्याः ॥ अत्र पत्रदानादि (३) चेतनधर्माणामारोपणमिति ।
इत्यलङ्कारशेखरे गुणरत्ने शब्दगुणमरीचिः ।
-
·
अथाऽर्थगुणानाह
भाविकत्वं सुशब्दत्वं पर्यायोक्तिः सुधर्मिता ॥ चत्वारोऽर्थगुणाः प्रोक्ताः परे स्वत्रैव सङ्गताः ॥१॥
( १ ) जीवितमात्रं लभ्यते - इति क, खपु० पाठः ।
( २ ) शशधररुचि - सद्यः - इति गपु० पाठः । (३) पत-पदानां - इति क, खपुस्तकयोरधिकः पाठः ।