SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तृतीयरने प्रथममरीचिः। .. तृतीयं रत्नम् । श्लाघ्या गुणा इत्युक्तम् । युक्तं चैतत् । यदाह. अलङ्कृतमा श्रव्यं न काव्यं गुणवर्जितम् । गुणयोगस्ततो मुख्यो गुणालङ्कारयो(१)गयोः ॥ .. : (२)तदुक्तम्-- अलङ्कारसहस्रः किं गुणो यदि न विद्यते । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥ उक्तं च श्रीपादेन(३)-'शब्दार्थों काव्यस्य शरीरम् , आत्मा रसः, गुणाः शौर्यादिवत् , दोषाः काणत्वादिवत् । अलङ्काराः कुण्डलादिवत्' इति । तान् विभजते- .. गुणः सामान्यतो द्वेधा शब्देष्वषु च स्थितः ॥ दोषाणामप्यदोषत्वं प्राहुर्वैशेषिकान्गुणान् ॥१॥ तत्र संक्षिप्तत्वमुदात्तत्वं प्रसादोक्तिसमाधयः ॥ अत्रैवान्यसमावेशात्पश्च शब्दगुणाः स्मृताः ॥२॥ स्वल्पाक्षरेण भूयोऽर्थकथनम्-संक्षेपः । यथा ते हिमाचलमामन्य पुनः प्रेक्ष्य च शूलिनम् । ... सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः ।। श्लाघ्यविशेषणत्वम्-उदात्तत्वम् । यथाश्रुत्वा यं सहमा ऽऽगतं निजपुरात्त्रासेन निर्गच्छतां शत्रूणामवरोधनजेलभरपस्यन्दलिम्पत्पुटाः । . . (१) योद्धयोः इति गपु० पाठः। (२)इत पारभ्य 'क्षीरविवर्जिताः' इत्यन्तः पाठः कपुस्तके नास्ति । (३) भगवता-इति ख,गपु० पाठः।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy